________________
१०]
[ धर्मसंग्रहः - प्रथमाधिकारः
यदि वधूवरयोरनपवादं परस्परं रुचिरस्ति तदा अधर्म्या अपि धर्म्याः । शुद्धकलत्रलाभफलो विवाहः, तत्फलं च सुजातसुतसन्ततिरनुपहता चित्तनिर्वृत्तिर्गृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिबान्धवसत्कारानवद्यत्वं चेति । कुलवधूरक्षणोपायास्त्वेते गृहकर्मविनियोगः, परिमितोऽर्थसंयोगः, अस्वातन्त्र्यम्, सदा च मातृतुल्यस्त्रीलोकावरोधनमिति ॥२॥५॥
तथा शिष्यन्ते स्म शिष्टा वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षा मनुजविशेषास्तेषामाचारश्चरितं यथा -
"लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः ।
कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्त्तितः ॥१॥ [यो.बिं./श्लो.१२६ ] सर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु ।
आपद्यदैन्यमत्यन्तं, तद्वत् सम्पदि नम्रता ॥२॥ [ यो. बि. / श्लो. १२७ ] प्रस्तावे मितभाषित्वमविसंवादनं तथा ।
प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥३॥ [यो.बिं./श्लो.१२८ ] असद्व्ययपरित्यागः, स्थाने चैव क्रिया सदा ।
प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्ज्जनम् ॥४॥ [ यो. बि. / श्लो. १२९] लोकाचारानुवृत्तिश्च, सर्वत्रोचितपालनम् ।
11
प्रवृत्तिर्गर्हिते नेति प्राणैः कण्ठगतैरपि ॥५॥[ यो. बिं./श्लो.१३० ] इत्यादि, तस्य प्रशंसा प्रशंसनं पुरस्कार इत्यर्थः तथा -
"गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः " ॥१॥ []
तथा - "शुद्धा प्रसिद्धमायान्ति, लघवोऽपीह नेतरे ।
तमस्यपि विलोक्यन्ते, दन्तिदन्ता न दन्तिनः " ॥२॥ [ ] इति ॥ तथा अरयः शत्रवस्तेषां षड्वर्गोऽयुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः, यतस्ते शिष्टगृहस्थानामन्तरङ्गाऽरिकार्यम् कुर्वन्ति तत्र - परपरिगृहीतास्वनूढासु वा स्त्रीषु
१. सदाचारमातृ० मु० । धर्मबिन्दु - योगशास्त्र [ प. १४८ ] श्राद्धविधि[ प ६ A ] वृत्तिषु P. L. C. प्रतिष्वपि सदा च मातृ० इति पाठः ॥ २. चैतत् - इति योगबिन्दौ ॥ ३. सर्वत्रौचित्यपालनम्-इति योगबिन्दौ धर्मबिन्दुवृत्तौ च प. ६ B ॥
D:\new/d-1.pm5\ 3rd proof