________________
[ धर्मसंग्रहः - प्रथमाधिकारः
अजीर्णेऽभोजनं काले भुक्तिः सात्म्यादलौल्यतः । वृत्तस्थज्ञानवृद्धार्हा गर्हितेष्वप्रवर्त्तनम् ॥१०॥ भैर्त्तव्यभरणं २१दीर्घदृष्टिर्धर्मश्रुतिर्दयाँ । अष्टबुद्धिगुणैर्योगः पक्षपातो गुणेषु च ॥११॥ सदाऽनभिवेशश्च विशेषज्ञानमन्वहम् । यथार्हमतिथौ साधौ दीने च प्रतिपन्नता ॥१२॥ अन्योऽन्यानुपघातेन त्रिवर्गस्यापि साधनम् । अदेशाकालाऽचरणं बलाबलविचारणम् ॥१३॥ 'यथार्हलोकयात्रा च परोपकृतिपाटवम् । ही सौम्यता चेति जिनैः प्रज्ञप्तो हितकारिभिः ॥१४॥ दशभिः कुलकम् ॥
‘तत्र' तयोः सामान्यविशेषरूपयोः गृहस्थधर्मयोर्वक्तुमुपक्रान्तयोर्मध्ये 'सामान्यतो गेहिधर्मः’‘इति' अमुना प्रकारेण 'हितकारिभिः' परोपकरणशीलैजिनैरर्हद्भिः ‘प्रज्ञप्तः ' प्ररूपित इत्यन्तेन संबन्धः । स च यथा -' न्यायार्जितं धनम्' इत्यादि ।
८]
तत्र स्वामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगर्ह्यार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायस्तेनार्जितं संपादितं धनम्, अयमेव धर्मः, न्यायार्जितं हि धनम् अशङ्कनीयतया स्वशरीरेण तत्फलभोगान्मित्रस्वजनादौ संविभागकरणाच्चेह लोकहिताय । यदाह -
"सर्वत्र शुचयो धीराः, स्वकर्मबलगर्विताः ।
स्वकर्मनिन्दितात्मानः, पापाः सर्वत्र शङ्किताः " ॥१॥[ ]
सत्पात्रेषु विनियोगात् दीनादौ कृपया वितरणाच्च परलोकहिताय, पठ्यते च धार्मिकस्य धनस्य शास्त्रान्तरे दानस्थानम् । यथा -
" पात्रे दीनादिवर्गे च दानं विधिवदिष्यते ।
,
पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत्" ॥१॥ [ यो. बिं. / श्लो. १२१ ] अन्यायोपात्तं तु लोकद्वयेऽप्यहितायैव, इहलोके विरुद्धकारिणो वधबन्धादयो दोषाः, परलोके नरकादिगमनादयः । यद्यपि कस्यचित् पापानुबन्धिपुण्यानुभावादैहलोकिकी विपन्न दृश्यते तथाप्यायत्यामवश्यम्भाविन्येव । यतः -
१. यथार्हं-मु० ॥ २. गृहिधर्म:-P .C | गृहधर्मः L || ३. कुकर्म० इति योगशास्त्रवृत्तौ प. १४६ ॥
D:\new/d-1.pm5\3rd proof