________________
धर्मभेदा: - श्लो० ४ ॥ ]
प्रदर्शितं धर्मलक्षणम् अथामुमेव धर्मं भेदतः प्रभेदतश्च बिभणिषुराह -
सद्विधा स्यादनुष्ठातृगृहिव्रतिविभागतः ।
सामान्यतो विशेषाच्च, गृहिधर्मोऽप्ययं द्विधा ॥४॥
‘सः' यः पूर्वं प्रवक्तुमिष्टो धर्मो 'द्विधा' द्वाभ्यां प्रकाराभ्यां 'स्याद्' भवेत्, कुत: ? इत्याह –— अनुष्ठातृगृहिव्रतिविभागतः' इति अनुष्ठातारौ धर्मानुष्ठायकौ यौ गृहिव्रतिनौ तयोर्विभागतो विशेषात्, गृहस्थधर्मो यतिधर्मश्चेति भावः । तत्र गृहमस्यास्तीति गृही, तद्धर्मश्च नित्यनैमित्तिकानुष्ठानरूपः, व्रतानि महाव्रतानि विद्यन्ते यस्मिन् स व्रती, तद्धर्म्मश्च चरणकरणरूपः । तत्र च गृहिधर्म विशिनष्टि – गृहिधर्मोऽपीति' 'अयं' साक्षादेव हृदि वर्त्तमानतया प्रत्यक्षो गृहिधर्म उक्तलक्षणः, किं पुनः सामान्यधर्म: ? इत्यपिशब्दार्थः 'द्विधा' द्विभेदः, द्वैविध्यं दर्शयति – सामान्यतो विशेषाच्च' इति तत्र सामान्यतो नाम सर्वविशिष्टजनसाधारणानुष्ठानरूपः, विशेषात् सम्यग्दर्शनाणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चय इति ॥४॥
तत्राद्यं भेदं दशभिः श्लोकैर्दर्शयति -
1—
तंत्र सामान्यतो गेहिधर्मो न्यायार्जितं धनम् । वैवाह्यमन्यगोत्रीयैः, कुलशीलसमैः समम् ॥५॥ शिष्टाचारप्रशंसारिषड्वर्गत्यजनं तथा । इन्द्रियाणां जय उपप्लुतस्थानविवर्जनम् ॥६॥ सुप्रातिवेश्मिके स्थानेऽनतिप्रकटगुप्तके । अनेकनिर्गमद्वारं गृहस्य विनिवेशनम् ॥७॥ पापभीरूकता ख्यातदेशाचारप्रपालनम् । संर्वेष्वनपवादित्वं नृपादिषु विशेषतः ॥८॥ आयोचितव्ययो वेषो, विभवाद्यनुसारतः । मौतापित्रर्चनं सङ्गः सैंदाचारैः कृतज्ञता ॥९॥
१२
[ ७
१. तुला - धर्मबिन्दुः सू० १२ । २. सर्वविशिष्टः जन्यसा० L । सर्वजन सा० इति धर्मबिन्दुवृत्तौ प० ३ A ॥ ३. इत आरभ्य सवृत्तिकधर्मबिन्दुग्रन्थस्य [सू० १।३-५६, प. ३तः ], सवृत्तिकयोगशास्त्रस्य [१।४७-५६, प. १४४ तः] च तुला कार्या ।
D:\new/d-1.pm5\3rd proof