________________
६]
[धर्मसंग्रहः-प्रथमाधिकारः द्वेषवृत्तिभावो माध्यस्थ्यमिति ४] तदेवंविधमनुष्ठानं 'धर्म इति' दुर्गतिपतज्जन्तुजातधारणात् स्वर्गादिसुगतौ धानाच्च धर्म इत्येवंरूपत्वेन 'कीर्त्यते' शब्द्यते सकलाऽकल्पितभावकल्पनाकल्पनकुशलैः सुधीभिरिति । __[नन्वेवं वचनानुष्ठानं धर्म इति प्राप्तम् , तथा च प्रीतिभक्त्यसङ्गानुष्ठानेष्वव्याप्तिरिति चेत् ? न, वचनव्यवहारक्रियारूपधर्मस्यैवात्र लक्ष्यत्वेनाव्याप्त्यभावादिति। वस्तुत: प्रीतिभक्तित्वे इच्छागतजातिविशेषौ, तद्वज्जन्यत्वेन प्रीतिभक्त्यनुष्ठानयोर्भेदः, वचनानुष्ठानत्वं वचनस्मरणनियतप्रवृत्तिकत्वम् , एतत्रितयभिन्नानुष्ठानत्वम् असङ्गानुष्ठानत्वं निर्विकल्पस्वरसवाहिप्रवृत्तिकत्वं वा । इह तु वचनादित्यत्र वेदात् प्रवृत्तिरित्यत्रैव प्रयोज्यत्वार्थिका पञ्चमी, तथा च-वचनप्रयोज्यप्रवृत्तिकत्वंलक्षणमिति न कुत्राप्यव्याप्तिदोषावकाशः । प्रीतिभक्त्यसङ्गानुष्ठानानामपि वचनप्रयोज्यत्वानपायात् ।]२ "धर्मश्चित्तप्रभवो, यतः क्रियाधिकरणाश्रयं कार्यम् । मलविगमेनैतत् खलु, पुष्ट्यादिमदेष विज्ञेयः ॥१॥[षोड.३/२] रागादयो मलाः खल्वागमसद्योगतो विगम एषाम् । तदयं क्रियात एव हि, पुष्टिश्चित्तस्य शुद्धस्य (शुद्धिश्च चित्तस्य) ॥२॥ [ षोड.३/३] पुष्टिः पुण्योपचयः, शुद्धिः पापक्षयेण निर्मलता।
अनुबन्धिनि द्वयेऽस्मिन् , क्रमेण मुक्तिः परा ज्ञेया" ॥३॥[ षोड.३/४] इत्यादि षोडशकग्रन्थानुसारेण तु पुष्टिशुद्धिमच्चित्तं भावधर्मस्य लक्षणम् । तदनुगता क्रिया च व्यवहारधर्मस्येति पर्यवसन्नम् । प्रतिपादितं चेत्थमेव महोपाध्यायश्रीयशोविजयगणिभिरपि स्वकृतद्वात्रिंशिकायाम् । इत्थं च शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणबीजलाभफला जीवशुद्धिरेव धर्मः । यच्चेहाविरुद्धवचनादनुष्ठानं धर्म इत्युच्यते तत्तूपचारात् । यथानड्वलोदकं पादरोगः । एतेन व्यवहारभावधर्मयोरुभयोरपि लक्षणे उपपादिते भवतः, भावलक्षणस्य द्रव्ये उपचारेणैव संभवात् । अन्योन्यानुगतत्वं च तयोस्तत्र तत्र प्रसिद्धमिति ? ॥३॥
१. श्यम्-L ॥ २. इदं तु ध्येयम्-यद्यपि मुद्रिते महोपाध्याय श्रीमद्यशोविजयगणिवरप्रणीतटीप्पणीस्थानोपलक्षणस्य कोष्ठकस्य समाप्तिः तृतीयगाथाविवरणप्रान्ते कृता अस्ति किन्तु इत अग्रेतनांशे आयातस्य 'श्रीयशोविजयगणिभिरपि' इत्याद्युल्लेखस्य टीप्पण्यंशासम्भवेन अस्माभिरिहैव कोष्ठकसमाप्तिः कृता अस्ति ।। ३. शुद्धस्यः (शुद्धिश्च चित्तस्य)-मु० । शुद्धस्य-P.L.C. | पुष्टिः शुद्धिश्च चित्तस्य-इति षोडशके, ‘पुष्टिः शुद्धिश्च वक्ष्यमाणा चित्तस्य सम्भवति'-इति तत्रैव महोपाध्यायवृत्तौ ॥ ४. षोडशग्रन्था P.L.C. ॥ ५. यथा तण्डुलो० L.C. । यथा तन्दुलो० P. ||
D:\new/d-1.pm5\3rd proof