________________
धर्मस्वरूपम्-श्लो० ३॥] ___ तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धः, वचनस्य हि वक्ता निमित्तमन्तरङ्गम् , तस्य च रागद्वेषमोहपारतन्त्र्यमशुद्धिस्तेभ्यो वितथवचनप्रवृत्तेः, न चैषाऽशुद्धिजिने भगवति, जिनत्वविरोधात् , जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनितिशब्दार्थानुपपत्तेः । तपनदहनादिशब्दवदन्वर्थतया चास्याभ्युपगमाद् । निमित्तशुद्ध्यभावान्नाजिनप्रणीतवचनमविरुद्धम् , यतः कारणस्वरूपानुविधायि कार्यम् , तन्न, दुष्टकारणारब्धं कार्यमदुष्टं भवितुमर्हति निम्बबीजादिवेक्षुयष्टिरिति । अन्यथा कारणव्यवस्थोपरमप्रसङ्गात् । यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोकिरणव्यवहारेण क्वचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते, मार्गानुसारिबुद्धौ वा प्राणिनि क्वचित् , तदपि जिनप्रणीतमेव, तन्मूलत्वात् तस्य । तदुक्तमुपदेशपदे -
"सव्वप्पवायमूलं, दुवालसंगं जाओ जिणक्खायं ।
रयणागरतुल्लं खलु, तो सव्वं सुन्दरं तम्मि" ॥ [ उप.प.गा./६९४] त्ति ॥ कीदृशमनुष्ठानं धर्म: ? इत्याह – 'यथोदितं' यथा येन प्रकारेण कालाधाराधनानुसाररूपेण उदितम् प्रतिपादितम् , तत्रैवाविरुद्ध वचने इति गम्यम् , अन्यथाप्रवृत्तौ तु तवेषित्वमेवापद्यते न तु धर्मः । यथोक्तम् -
"तत्कारी स्यात् स नियमात् , तद्वेषी चेति यो जडः ।
आगमार्थे तमुल्लङ्घ्य, तत एव प्रवर्त्तते" ॥ [ यो.बि./श्लो.२४० ] इति । धर्मदासक्षमाश्रमणैरप्युक्तम् -
"जो जहवायं न कुणइ, मिच्छट्ठिी तओ उ को अन्नो।
वड्डेई मिच्छत्तं, परस्स संकं जणेमाणो त्ति ॥ [ उमा.गा./५०४] पुनरपि कीदृशम् ? इत्याह –'मैत्र्यादिभावसंमिश्रं' मैत्र्यादयः मैत्री-मुदिता-करुणामाध्यस्थ्यलक्षणा ये भावा-अन्तःकरणपरिणामाः तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्वगुणाऽधिकक्लिश्यमानाऽविनेयेषु , तैः संमिश्रं-संयुक्तम् , मैत्र्यादिभावानां निःश्रेयसाभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात् ।
[तंत्र समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री १। नमनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः प्रमोदः २। दीनादिष्वनुकम्पा करुणा ३। अराग
१. मिच्छादिट्ठी-मु० | L.P.C. उपदेशमालायामपि मिच्छद्दिट्टी इति । २. तुला-योगाशास्त्रवृत्तिः ४।११७, प. ९४९ । ३. वदनप्रसादा० इति योगशास्त्रवृत्तौ प. ९४९ । ४. अरागद्वेषभावो-मु० C. । 'मध्यस्थः अरागद्वेषवृत्तिः, तद्भावो माध्यस्थ्यम्' इति योगशास्त्रवृत्तौ प. ९४९ ।
D:\new/d-1.pm53rd proof