________________
४]
[धर्मसंग्रहः-प्रथमाधिकारः "विदारयति यत्कर्म, तपसा च विराजते ।
तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः" ॥[ ] इति लक्षणनिरुक्ताद्वा वीरः । महाँश्चासावितरवीरापेक्षया वीरश्च महावीरः । वीरत्वं च दानयुद्धधर्मभेदात्रिधा । यदाहुः -
"कृत्वा हाटककोटिभिर्जगदसद्दारिद्र्यमुद्राकथं हत्वा, गर्भशयानपि स्फुरदरीन् मोहादिवंशोद्भवान् । तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं,
तपस्त्रेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः" ॥१॥[ ] तं प्रणम्य प्रकर्षेण भावपूर्वकं मनोवाक्कायैर्नत्वेति सम्बन्धः । शेषाणि महावीरपदविशेषणानि, तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते । तत्र पूर्वार्धन पूजातिशयः तत्त्वज्ञमित्यनेन ज्ञानातिशयः, तत्त्वं सकलपर्यायोपेतसकलवस्तुस्वरूपं जानातीति व्युत्पत्तेः । तत्त्वदेष्टारमित्यनेन तु वचनातिशयः, तत्त्वं दिशतीति व्युत्पत्तिसिद्धेः, जिनोत्तममित्यनेन च अपायापगमातिशयः, अपायभूता हि रागादयस्तदपगमेन भगवतः स्वरूपलाभः, स च जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनिति शब्दार्थात् सिद्धः । तदेवं चतुरतिशयप्रतिपादनद्वारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति भाव इति श्लोकयुग्मार्थः ॥१-२॥ अथ धर्मपदवाच्यमाह -
वचनादविरुद्धाद् यदनुष्ठानं यथोदितम् ।
मैत्र्यादिभावसम्मिश्रं, तद्धर्म इति कीर्त्यते ॥३॥ उच्यते इति वचनमागमस्तस्माद्वचनमनुसृत्येत्यर्थः, यत् अनुष्ठानम् इहलोकपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिरिति 'तद्धर्म इति कीर्त्यते' इत्युत्तरेण योगः । कीदृशाद्वचनाद् ? इत्याह –'अविरुद्धात्' कषच्छेदतापेषु अविघटमानात् तत्र विधिप्रतिषेधयोर्बाहुल्येनोपवर्णनं कषशुद्धिः । पदे पदे तद्योगक्षेमकारिक्रियोपदर्शनं छेदशुद्धिः । विधिप्रतिषेधतद्विषयाणां जीवादिपदार्थानां च स्याद्वादपरीक्षया याथात्म्येन समर्थनं तापशुद्धिः । तदुक्तं धर्मबिन्दौ -
"विधिप्रतिषेधौ कषः" ॥ [सू० ९३ ] "तत्संभवपालनाचेष्टोक्तिश्छेदः" ॥ [सू० ९४] "उभयनिबन्धनभाववादस्ताप" ॥ [ सू० ९५] इति ।
१. तत्त्वज्ञमित्यन्येन-मु० C । २. तु-मु० सि० मूल । ३. ०नां- P.L. I
D:\new/d-1.pm5\3rd proof