________________
न्यायविशारदन्यायाचार्यश्रीमद्यशोविजयप्रणीतान्तर्गतटिप्पणीसमेतः
श्रीमन्मानविजयमहोपाध्यायप्रणीतः
स्वोपज्ञवृत्तिविभूषितः
धर्मसंग्रहः ॥ प्रथमाधिकारः॥
ऐं नमः ॥ प्रणम्य विश्वेश्वरवीरदेवं, विश्वातिशायिप्रथितप्रभावम् । शास्त्रानुसृत्या किल धर्मसंग्रहं, सुखावबुद्ध्यै विवृणोमि लेशतः ॥१॥
अत्र ग्रन्थकृत् प्रथमं श्लोकद्वयेन मङ्गलं समाचरन् श्रोतृप्रवृत्तये स्वाभिधेयं प्रतिजानीते -
प्रणम्य प्रणताशेषसुरासुरनरेश्वरम् । तत्त्वज्ञं तत्त्वदेष्टारं महावीरं जिनोत्तमम् ॥१॥ श्रुताब्धेः सम्प्रदायाच्च, ज्ञात्वा स्वानुभवादपि । सिद्धान्तसारं ग्रथनामि, धर्मसङ्ग्रहमुत्तमम् ॥२॥ युग्मम् ॥ अहं श्रुताब्धेः सकाशात् , तथा सम्प्रदायाद्-गुरुपारम्पर्यात् , तथा स्वानुभवाच्चस्वकीयश्रुतचिन्तोत्तरोत्पन्नभावनाज्ञानाच्च, ज्ञात्वा निर्णीय, धर्ममिति शेषः । सिद्धान्तसारम् आगमस्य सारभूतम् , उत्तमं च लोकोत्तरधर्मनिरूपकत्वात् , धर्मसंग्रहं-धर्मसंग्रहनामकं शास्त्रम् । तत्र संगृह्यतेऽनेनेति संग्रह:, "पुंनाम्नि"[सि.हे. ५-३-१३० ] इति करणे घ:, धर्मस्य वक्ष्यमाणलक्षणस्य संग्रहो धर्मसंग्रह इति । यद्वा धर्मस्य संग्रहो यत्र स धर्मसंग्रह इति व्युत्पत्तिस्तं ग्रथ्नामि रचयामीति क्रियाकारकसण्टङ्कः । किं कृत्वा? विशेषेण ईरयति क्षिपति तत्तत्कर्माणीति वीरः ।
१. ऐं नमः । श्रीप्रवचनाय । प्रणम्य-P. | ऐं नमः श्री जिनाय नमः । प्रणम्य-L. I २. स्वाभिप्रायं-मु० । स्वाभियं-C. I
D:\new/d-1.pm5\3rd proof