________________
पर्वादिकृत्यानि-श्लो० ६८॥]
[४२१ पारासरस्मृत्यादावपि -
"आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् ।
सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना" ॥१॥[] उमास्वातिवाचकप्रघोषश्चैवं श्रूयते - "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा ।
श्रीवीरमोक्षकल्याणं, कार्यं लोकानुगैरिह" ॥१॥[ ] इति । एवं पौषधादिना पर्वदिवसा आराध्या इति पर्वकृत्यानि ।
अथ चतुर्मासीकृत्यानि यथा –पूर्वप्रतिपन्नव्रतेन प्रतिचतुर्मासिकं तन्नियमाः संक्षेप्या अप्रतिपन्ननियमे तु आप्याः तु यथास्वं प्रतिचतुर्मासकं नियमा ग्राह्याः । वर्षाचतुर्मास्यां पुनर्ये नित्यनियमाः सम्यक्त्वाधिकार प्रागुक्तास्ते विशिष्य ग्राह्याः । तथाहि -त्रिद्धिा देवपजाऽष्टभेदादिका, सम्पर्णदेववन्दनं चैत्ये. सर्वबिम्बानामर्चनं वंदनं वा. स्नात्रमहो महापूजाप्रभावनादि, गुरोबृहद्वन्दनम् , अङ्गपूजनप्रभावनास्वस्तिकरचनादिपूर्वव्याख्यानश्रवणम् , विश्रामणा, अपूर्वज्ञानपाठाद्यनेकविधस्वाध्यायकरणम् , प्रासुकनीरपानम् , सचित्तत्यागस्तदशक्तावनुपयोगितत्त्यागः, गृह-हट्ट-भित्ति-स्तम्भ-खट्वाकपाटपट्टपट्टिकासिक्कक-घृत-तैलजलादिभाजनेन्धन-धान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थं चूर्णकरक्षादिखरण्टन-मलापनयनाऽऽतपमोचन-शीतलस्थानस्थापनादिना, जलस्य द्विस्त्रिर्गालनादिना, स्नेह-गुड-तक्र-जलादीनां सम्यक् स्थगनादिना, अवश्रावणस्नानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् त्यागेन, चुल्लीदीपादेरनुद्घाटमोचनेन, पेषण-रन्धन-वस्त्रभाजनादिक्षालनादौ सम्यक् प्रत्युपेक्षणेन, चैत्यशालादेरपि विलोक्यमानसमारचनेन, गृहे च व्यापारणस्थाने चन्द्रोदयबन्धनेन यथार्ह यतना। अभ्याख्यान-पैशुन्य-परुषवचन-निरर्थकमृषावर्जनम् , कूटतुलादिनाऽव्यवहरणम् , ब्रह्मचर्यपालनम् , तथाऽशक्तौ पर्वतिथिपालनम् , शेषदिनेषु दिवाऽब्रह्मत्यागो रात्रौ परिमाणकरणं च, इच्छापरिग्रहपरिमाणसङ्क्षपतरः, सर्वदिग्गमननिषेधस्तदशक्तावनुपयोगिदिग्गमननियमः, यथाशक्तिस्नान-शिरोगुम्फन-दन्तकाष्ठोपानहादित्यागः, भूखनन-वस्त्रादिरञ्जनशकटखेटनादिनिषेधः वार्दलाब्दवृष्ट्यादिना इलिकादिपाते राजादनाम्रत्यागादि च,
१. ज्ञाननिर्वाणं-C. श्राद्धविधिवृत्तौ च । मोक्षकल्याण-L.P. मु० [ ] कोष्ठके ॥ २. तुला श्राद्धविधिवृत्तिः ४/१२, प० १५७ ॥ ३. C. सं L.P. I 'हप्रमा' C. मूल । 'हप्र(परि) मा मु० ॥ ४. L.P.C. संशो० । पातो (तात्) ||
D:\new/d-2.pm5\3rd proof