________________
४२०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः गोयमा ! बहुफलं होइ, जम्हा एआसु तिहीसु जीवो परभवाउअं समज्जिणइ, तम्हा तवोवहाणाइ धम्माणुट्ठाणं कायव्वं, जम्हा सुहाउअं समज्जिणइ"[ ] इति ।
तथा वर्षामध्येऽश्विनचैत्रचातुर्मासिकवार्षिकाष्टाहिकाचतुर्मासकत्रयसांवत्सरपर्वादिदिवसा अर्हज्जन्मादिपञ्चकल्याणकदिवसाश्चापि पर्वतिथित्वेन विज्ञेयाः, तत एष्वपि विशेषेण पूर्वोक्तो विधिविधेयः । उक्तं च -
"संवच्छरचाउम्मासिएसु अट्ठाहिआसु अ तिहीसुं ।
सव्वायरेण लग्गाइ, जिणवरपूआतवगुणेसुं" ॥१॥ [उ.मा./२४१] अत्र गुणाः –ब्रह्मव्रतादयः । अष्टाहिकास्वपि चैत्राश्विनाष्टाहिके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति । यदाहुः -
"दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमी ।
अट्टाहिआदिमहिमा, बीआ पुण अस्सिणे मासे ॥१॥[श्रा.वि./गा.११वृ.] एआओ दो वि सासयजत्ताओ करंति सव्वदेवा वि।। नंदीसरंमि खयरा, अहवा निअएसु ठाणेसु ॥२॥ [ श्रा.वि./गा.११वृ.] तह चउमासिअतिअगं, पज्जोसवणा य तह य इअ छक्कं ।
जिणजम्मदिक्खकेवलनिव्वाणाइसुअसासइआ?"॥३॥[ श्रा.वि./गा.११व.] जीवाभिगमे त्वेवम् –“तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिआ देवा तिहिं चउमासिएहिं पज्जोसवणाए अट्ठाहिआओ महामहिमाओ करिति' [ ] इति ।
तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम् , सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् । आहुरपि -
"चाउम्मासिअवरिसे, पक्खिअपंचट्ठमीसु नायव्वा । ताओं तिहीओ जासिं, उदेइ सूरो न अण्णाउ ॥१॥[ श्रा.वि./गा.११वृ.] पूआपच्चक्खाणं, पडिकमणं तह य निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं ॥२॥[श्रा.वि./गा.११वृ.] उदयंमि जा तिही सा, पमाणमिअराइ कीरमाणीए।। आणाभंगणवत्था, मिच्छत्तविराहणं पावे ॥३॥[श्रा.वि./गा.११व.]
१. तुला-श्राद्धविधिवृत्तिः गा० ११ ॥ २. स इति-श्राद्धविधिवृत्तौ ॥
D:\new/d-2.pm5\3rd proof