SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४१८] [धर्मसंग्रहः-द्वितीयोऽधिकारः धर्ममनोरथभावना चैवम् - "सावयघरंमि वर हुज्ज चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया चक्कवट्टी वि ॥१॥[प्र.वि.कु./३२] कइआ संविग्गाणं, गीअत्थाणं गुरूण पयमूले । सयणाइसंगरहिओ, पव्वज्जं संपवज्जिस्सं ॥२॥ [चा.म./२] भयभेरवनिक्कंपो, सुसाणमाइसु विहिअउस्सग्गो। तवतणुअंगो कइआ, उत्तमचरिअंचरिस्सामि" ॥३॥[चा.म./२२] इत्यादि । अथाहोरात्रिकी क्रियामुपसंहरन्नुत्तरार्द्धमाह -'इति' अमुना उक्तप्रकारेणाहोरात्रे भवाऽऽहोरात्रिकी 'चर्या' चरणा 'श्रावकाणाम्' उक्तस्वरूपाणाम् 'उदीरिता' निरूपिता, सा च विशेषतो गृहिधर्मो भवतीति पूर्वक्रियया सम्बन्धः ॥६७॥ एवं सविस्तरं श्रावकाणां दिनकृत्यानि गृहिधर्मत्वेन विधेयतयोपदाथ तेषामेव पर्वादिकृत्यानि पूर्वमुक्तप्रायाण्यपि व्यक्त्याऽतिदिशन्नाह - एवं पर्वसु सर्वेषु , चतुर्मास्यां च हायने । जन्मन्यपि यथाशक्ति, स्वस्वसत्कर्मणां कृतिः ॥६८॥ 'एवम्' उक्तेन प्रकारेण 'सर्वेषु' न त्वेकद्व्यादिषु ‘पर्वसु' चतुर्दश्यादितिथिषु , 'चः' समुच्चये, चतुर्णा मासानां समाहारश्चतुर्मासी तस्यां च, परं 'हायने' वर्षे, तथा 'जन्मन्यपि' न तु केवलं पर्वादिष्वेवेत्यपिशब्दार्थः । एतेषु 'यथाशक्ति' शक्तिमनतिक्रम्य चित्तवित्तगतसामर्थ्यानुल्लङ्घनेनेत्यर्थः, तेषु किम् ? इत्याह –'स्वेत्यादि' स्वानि स्वानीति वीप्सायां द्वित्वम् , पर्वसु पर्वकर्माणि स्वान्युच्यन्ते, एवं चतुर्मास्यादौ भावनीयम् , तानि चाशोभनान्यपि भवन्त्यतो विशेषणमाह -सन्तीति, स्वानि स्वानि यानि सन्ति-शोभनानि, धार्मिकाणीत्यर्थः, कर्माणि -कृत्यानि तेषां कृतिः - करणम . विशेषतो गहिधर्मो भवतीति सम्बन्धः । नित्यकृत्यानि यथा नित्यं कार्याणि तथा पर्वादिकृत्यानि पर्वादिष्विति भावः । तत्र पर्वाणि चैवमूचुः - "अट्ठमि चउद्दसि पुण्णिमा य तहमावसा हवइ पव्वं । मासंमि पव्वछक्कं, तिन्नि अ पव्वाइं पक्खंमि" ॥१॥[प्र.प./४९७ ] १. निरूपिता। दिनकृत्यान्युपदी साम्प्रतं तेषामेव पर्वादिकृत्यानि व्यक्त्याऽतिदिशन्नाह-L.P. || २. C. । सन्तीति-सदिति स्वानि-मु० सन्तीति-शोभनानि-L.P. ॥ ३. "णि पर्वादिकृत्यानि तथा पर्वाL.P. || ४. चा L.P. || ५. L.P.C. I तहा मु०॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy