________________
पाक्षिकप्रतिक्रमणविधिः-श्लो० ६५॥]
[३८३ राईणम्' इत्यादि गुरुस्तु पन्नरसण्हमित्यादि 'उच्चासणे समासणे' इतिपदद्वयवर्ज भणति, एवं सर्वेऽपि साधवः परस्परं क्षमयन्ति, लघुवाचनाचार्येण सह प्रतिक्रामतां साधूनां ज्येष्ठः प्रथमं स्थापनाचार्य क्षमयति, ततः सर्वेऽपि यथारत्नाधिकम् , गुर्वभावे सामान्यसाधवः प्रथमं स्थापनाचार्यं क्षमयन्ति, यावद् द्वौ शेषो, एवं श्रावका अपि, परं वृद्धश्रावकोऽमुकप्रमुखसमस्तश्रावको वांदुं वांदुं इति भणित्वा 'अब्भुट्ठिओमि प्रत्येकखामणेणं अभितरपक्खिअं खामेउंति इतरे च भणन्ति 'अहमवि खामेमि तुब्भे' ततो वृद्ध इतरे चेति उभयेऽपि भणन्ति 'पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं भण्यां भास्यां मिच्छा मि दुक्कडं' ॥ ____ ततो वन्दनकदानपूर्वं 'देवसिअं आलोइअ पडिक्कंता इच्छाकारेण संदिसह भगवन् ! पक्खिअं पडिक्कमावेह' ? गुरूभणति 'सम्म पडिक्कमह' तत 'इच्छं'ति कथनपूर्वं सामायिकसूत्रं 'इच्छामि पडिक्कमिउं जो मे पक्खिओ' इत्यादि भणित्वा क्षमाश्रमणपूर्वम् 'इच्छाकारेण संदिसह भगवन् ! पक्खिअसुत्तं कड्डेमि'त्ति उक्त्वा गुरुस्तदादिष्टोन्यो वा साधुः सावधानमना व्यक्ताक्षरं नमस्कारत्रिकपूर्वं पाक्षिकसूत्रं कथयति, इतरे च क्षमाश्रमणपूर्वं 'संभलेमि'त्ति भणित्वा यथाशक्ति कायोत्सर्गादौ स्थित्वा शृण्वन्ति । पाक्षिकसूत्रभणनानन्तरं 'सुअदेवया भगवई' इति स्तुति भणित्वोपविश्य पूर्वविधिना पाक्षिकप्रतिक्रमणसूत्रं पठित्वोत्थाय च तच्छेषं कथयित्वा 'करेमि भंते ! सामाइअम्' इत्यादि सूत्रत्रयं पठित्वा च प्रतिक्रमणेनाशुद्धानामतीचाराणां विशुद्ध्यर्थं द्वादशचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्गं कुर्यात् ।
ततो मुखवस्त्रिकाप्रतिलेखनापूर्वं वन्दनकं दत्त्वा' 'इच्छाकारेण संदिसह भगवन् ! अब्भुट्ठिओमि समाप्तखामणेणं अब्भितरपक्खिअं खामेउं' इत्यादि भणित्वा क्षमणकं विधत्ते । अत्र पूर्वं सामान्यतो विशेषतश्च पाक्षिकापराधे क्षमितेऽपि कायोत्सर्गे स्थितानां शुभैकाग्रभावमुपगतानां किञ्चिदपराधपदं स्मृतं भवेत् , तस्य क्षमणनिमित्तं पुनरपि क्षमणकरणं युक्तमेव । तत उत्थाय 'इच्छाकारेण संदिसह भगवन् ! पाखीखामणां खामुं? इच्छं' ततः साधवः चतुभिः क्षमाश्रमणैः चत्वारि पाक्षिकक्षमणानि कुर्वन्ति । तत्र च राजानं यथा माणवका अतिक्रान्ते माङ्गल्यकार्ये बहुमन्यन्ते यदुत -अखण्डितबलस्य ते सुष्ठ कालो गतोऽन्योऽप्येवमेवोपस्थित, एवं पाक्षिकं विनयोपचारं 'इच्छामि खमासमणो पिअं च मे इत्यादिप्रथमक्षामणसूत्रेण तथास्थित एव साधुराचार्यस्य करोति । ततो द्वितीये क्षमणके
१. L.P. I इतोऽग्रे-क्षमाश्रमणपूर्व-इति मु० C. |
D:\new/d-2.pm5\3rd proof