SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३८२ ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः तदनु ‘इच्छामो अणुसट्ठि’ इति भणित्वोपविश्य स्तुतित्रयादिपाठपूर्वं चैत्यानि वन्दते । इदं च प्रतिक्रमणं मन्दस्वरेणैव कुर्यात्, अन्यथाऽऽरम्भिणां जागरणेनारम्भप्रवृत्तेः । ततश्च साधुः कृतपौषधः श्रावको वा क्षमाश्रमणद्वयेन 'भगवन् ! बहुवेलं संदिसावेमि बहुवेलं करेमि' इति भणित, बहुवेलासम्भवीनि चोच्छ्वासादीनि कार्याणि बहुवेल इत्युच्यन्ते । ततश्च चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते, श्राद्धस्तु ‘अड्डाइज्जेसु' इत्यादि च पठति । इति रात्रिकप्रतिक्रमणविधिः । अथ पाक्षिकादिप्रतिक्रमणविधिः, तानि च दैवसिक – रात्रिकाभ्यां शुद्धौ सत्यामपि सूक्ष्मबादरातिचारजातस्य विशेषेण शोधनार्थं युक्तान्येव । यतः - " 'जह गेहं पइदिवसं पि, सोहिअं तह वि पक्खसंधीसुं । सोहिज्जइ सविसेसं, एवं इहयं पि नायव्वं" ॥१॥[ ] अत्र पाक्षिके पूर्ववद्दिवसप्रतिक्रमणं प्रतिक्रमणसूत्रान्तं विधत्ते, ततः क्षमाश्रमणपूर्वं ‘देवसिअं आलोइअ पडिक्कंता इच्छाकारेण संदिसह भगवन् ! पाखी मुहपत्ती पडिलेहूं' इत्युक्त्वा तां कायं च प्रतिलिख्य वन्दनके दत्त्वा सम्बुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानं च सर्वमनुष्ठानं सफलमिति ज्ञापयितुं ' अब्भुट्टिओमि संबुद्धाखामणेणं अब्भितरपक्खिअं खामेउं' इति भणित्वा 'इच्छं खामेमि पक्खिअं पन्नरसण्हं दिवसाणं, पन्नरसण्हं राईणं, जं किंचि अप्पत्तिअम्' इत्यादिना गुरुभिः स्थापनाचार्ये क्षमिते शिष्यः श्राद्धो वा श्रीगुर्वादीन् क्षमयति त्रीन् पञ्च वा, यदि द्वौ शेषौ तत उत्थाय 'इच्छाकारेण संदिसह भगवन् ! पक्खिअं आलोएमि ? इच्छं आलोएमि, जो मे पक्खिओ' इत्यादि सूत्रं भणित्वा संक्षेपेण विस्तरेण वा पाक्षिकानतिचारानालोच्य 'सव्वस्स वि पक्खि ' इत्यादिभणिते गुरुराह – 'पडिक्कमह' तत 'इच्छं'ति भणित्वा 'चउत्थेणम्' इत्यादिना गुरुदत्तमुपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते । ततो वन्दनकदानपुरस्सरं प्रत्येकक्षमणकानि विधातुं गुरुरन्यो वा ज्येष्ठः पूर्वमुत्थायोर्ध्वस्थित एव भणति –‘देवसिअं आलोइअ पडिक्कंता, इच्छाकारेण संदिसह भगवन् ! अब्भुट्ठिओऽहं प्रत्येकखामणेणं अब्भितरपक्खिअं खामेउं, 'इच्छं' इच्छकारि अमुकतपोधन ! स भणति 'मत्थएण वंदामि' क्षमाश्रमणपूर्वं । गुरुराह - ' अब्भुट्ठिओमि पत्तेअखामणेणं अब्भितरपक्खिअं खामेउं' सोऽपि 'अहमवि खामेमि तुब्भे'त्ति भणित्वा भूमिनिहितशिराः पुनर्भणति 'इच्छं खामेमि पक्खिअं पन्नरसहं दिवसाणं पन्नरसहं १. L.P. । प्रत्येकखामणेणं - मु० C. II D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy