________________
रात्रिकप्रतिक्रमणविधिः-श्लो० ६५॥]
[३८१ तृतीयकायोत्सर्गे च सावधानीभूतत्वात् सम्यग् स्यादिति तत्र निशातिचारचिन्तनमिति हाई । यत उक्तं समयविद्भिः
"निद्दामत्तो न सरड़, अइआरे कायघट्टणान्नोऽन्नं ।
किइकरणे दोसा वा, गोसाई तिन्नि उस्सग्गा"॥१॥[ आ.नि./१५२५ ] इति। ततः पूर्ववन्मुखवस्त्रिकाप्रतिलेखनापूर्वं वन्दनादिविधिः प्रतिक्रमणसूत्रानन्तरकायोत्सर्गं यावत् ज्ञेयः, पूर्वं चारित्राद्याचाराणां प्रत्येकं शुद्धये पृथक् कायोत्सर्गाणां कृतत्वेन साम्प्रतं तेषां समुदितानां प्रतिक्रमणेनाप्यशुद्धानां शोधनायायं कायोत्सर्गः सम्भाव्यते । अत्र च कायोत्सर्गे श्रीवीस्कृतं पाण्मासिकं तपश्चिन्तयति, हे जीव ! श्री वीरेण षाण्मासिकमुत्कृष्टं तपः कृतम् , तत् त्वं कर्तुं शक्नोषि? *न वा, जीवो वक्ति 'न शक्नोमि' तर्हि एकदिनोनं षाण्मासिकं कर्तुं शक्नोषि?,* न शक्नोमि, एवं द्वित्रिचतुःपञ्चदिनैरूनं पाण्मासिकं कर्तुं शक्नोषि? पुनर्वक्ति न शक्नोमि, तहि षट्सप्ताष्टनवदशदिनोनं षाण्मासिकं कर्तुं शक्नोषि?, एवं एकादशतः पञ्चदिनवृद्ध्या क्रमेणैकोनत्रिंशद्दिनानि यावच्चिन्तयति । एवं पञ्चमे चतुर्थे तृतीये द्वितीये मासेऽपि, प्रथमे तु रे जीव ! त्वमेकमासिकं कर्तुं शक्नोषि ? न शक्नोमि, ततः एकदिनोनं कर्तुं शक्नोषि ? न शक्नोमि, एवं यावत् त्रयोदशदिनोनं कर्तुं शक्नोषि ? न शक्नोमि, तर्हि चतुस्त्रिंशत्तमं कर्तुं शक्नोषि ? न शक्नोमि, द्वात्रिंशत्तमम् , त्रिंशत्तमम् , अष्टाविंशतितमम् षड्विंशतितमं चतुर्विंशतितमं द्वाविंशतितमं विंशतितमं अष्टादशं षोडशं चतुर्दशं द्वादशं दशमं षष्टं चतुर्थं कर्तुं शक्नोषीत्यादि विचिन्त्य यत् तपः कृतं स्यात् तत्र करणेच्छायां करिष्ये इति वक्ति, अन्यथा तु शक्नोमि, परं नाद्य मनो वर्त्तते इति, एवमाचाम्लनिर्विकृतिकैकाशनादिषु यत्र मनो भवतीति तन्मनसि निधाय पारयित्वा च कायोत्सर्गं मुखपोतिकाप्रतिलेखनापूर्वं वन्दनके दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते । यत उक्तं दिनचर्यायाम् - "सामाइअच्छम्मास तवुस्सग्ग उज्जोय पुत्तिवंदणगं । उस्सग्गचिंतियतवोविहाणमह पच्चखाणेणं ॥१॥ [ यति.भाव./१३] इगपंचाइदिणूणं, पणमास चइत्तु तेरदिण उढे । चउतीसाइ दिणूणं, चिंते नवकारसहियं जा ॥२॥[यति.भाव./१४] इतिक
१. L.P. I * * चिह्नद्वयमध्यवर्तिपाठ स्थाने 'न वेत्यादि' इति मु० मध्ये पाठः ॥ # चिह्नद्वयमध्यवर्तिपाठ: C. नास्ति ।। २. L. । पुनर्वक्ति-मु० नास्ति ॥ ३. L.P. । उ-मु० ॥ ४. इतोऽग्रे-'ततश्च क्रमाद्धाया यत्कर्तुं शक्नोति तन्मनसि निधाय पारयित्वा च कायोत्सर्गं मुखपोतिकाप्रतिलेखनापूर्वं वन्दनके दत्वा मनश्चिन्तितं प्रत्याख्यानं विधत्ते' । इति C. प्रतौ ।।
D:\new/d-2.pm5\3rd proof