________________
३८४] [ धर्मसंग्रहः - द्वितीयोऽधिकारः चैत्यसाधुवन्दनं निवेदयितुकाम 'इच्छामि खमासमणो पुवि' इत्यादि भणति । तदनु तृतीये आत्मानं गुरून् निवेदयितुं 'इच्छामि खमासमणो अब्भुट्ठिओऽहं तुब्भण्हम्' इत्यादि भणति । चतुर्थे तु यच्छिक्षां ग्राहितस्तमनुग्रहणं बहुमन्यमानः 'इच्छामि खमासमणो ! अहमवि पुव्वाइम्' इत्यादि वक्ति । एतेषां चतुर्णां पाक्षिकक्षमणकानां प्रत्येकमन्ते 'तुब्भेहिं समं १, अहमवि वंदामि चेइआई २, आयरिससंतिअं ३, नित्थारपारगा होह ४, इति श्रीगुरूक्तौ शिष्य ‘इच्छं’'ति भणति । श्रावकाः पुनरेकैकनमस्कारं पठन्ति ।
तत ‘इच्छामो अणुसट्ठि’ति भणित्वा वन्दनदैवसिकक्षमणकवन्दनादि दैवसिकप्रतिक्रमणं कुर्यात् । श्रुतदेवतायाः पाक्षिकसूत्रान्ते स्मृत्वेन तद्दिने तत्कायोत्सर्गस्थाने भवनदेवतायाः कायोत्सर्गः, क्षेत्रदेवतायाः प्रत्यहं स्मृतौ भवनस्य क्षेत्रान्तर्गतत्वेन तत्त्वतो भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमानार्हत्वात् कायोत्सर्गः साक्षात् क्रियते । स्तवस्थाने च मङ्गलार्थमजितशान्तिस्तवपाठ इति ।
अत्रापि पाक्षिकप्रतिक्रमणे पञ्चविधाचारविशुद्धिस्तत्तत् सूत्रानुसारेण स्वयमभ्यूह्या । सा चैवं सम्भाव्यते-ज्ञानादिगुणवत्प्रतिपत्तिरूपत्वाद्वन्दनकानि सम्बुद्धक्षमणानि च ज्ञानाचारस्य, द्वादशलोगस्सकायोत्सर्गानन्तरं प्रकटचतुर्विंशतिस्तवकथनेन दर्शनाचारस्य,
अतिचारालोचनप्रत्येकक्षमणकबृहल्लघुपाक्षिकसूत्रकथनसमाप्तिपाक्षिकक्षमणकादिभिश्चारित्राचारस्य, चतुर्थतपःप्रभृतिद्वादशलोगस्सकायोत्सर्गादिभिर्बाह्याभ्न्तरतपआचारस्य, सर्वैरप्येतैः सम्यगाराधितैर्वीर्याचारस्य शुद्धिः क्रियते । एतदनुसारेण चातुर्मासिकसांवत्सरिकप्रतिक्रमणयोरपि सम्भाव्यम् इति पाक्षिकप्रतिक्रमणक्रमः । चातुर्मासिकसांवत्सरिकयोरपि क्रम एष एव । नवरं नाम्नि विशेषः । कायोत्सर्गेऽपि चातुर्मासिकप्रतिक्रमणक्रमणे विंशतिचतुर्विंशतिस्तवचिन्तनम्, सांवत्सरिकप्रतिक्रमणे च चत्वारिंशच्चतुर्विंशतिस्तवास्तदन्ते एको नमस्कारश्च चिन्त्यते, क्षमणके च चउण्हं मासाणं, अहं पक्खाणं, इगसयवीसराइंदियाणं,' तथा 'बारसहं मासाणं, चउवीसण्हं पक्खाणं, तिन्निसयसट्ठिराइंदिआणं' इत्यादि वक्तव्यम् । साधवश्च पाक्षिकचातुर्मासिकयोः पञ्च सांवत्सरिके च सप्त गुर्वाद्याः क्षम्याः, यदि द्वौ शेषौ तिष्ठतः इति चातुर्मासिकसांवत्सरिकप्रतिक्रमणक्रमः । एतद्विधिसंवादिन्यश्चेमाः पूर्वाचार्यप्रणीता गाथा: - ‘“पंचविहायारविसुद्धिहेउमिह साहु सावगो वा वि ।
पडिकमणं सह गुरुणा, गुरुविरहे कुणइ इक्को वि ॥१॥ [प्र.स./२] १. इमा गाथाः स्वल्पपाठभेदयुता योगशास्त्रप्रतौ प० ६९१तः दृश्यन्ते ॥
D:\new/d-2.pm5\3rd proof