SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ दैवसिकप्रतिक्रमणविधिः-श्लो० ६५॥] [३७५ अणिगृहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो। जुंजइ अ जहाथाम, नायव्वो वीरियायारो" ॥८॥[ दश.वै.नि./१८७ ] इति । एतदतिचारचिन्तनं मनसा, सङ्कलनं च श्रीगुरुसमक्षमालोचनार्थम् , अन्यथा तत् सम्यग् न स्यात् । लोकेऽपि हि राजादीनां किमपि विज्ञप्यं मनसां संप्रधार्य कागदादौ लिखित्वा वा विज्ञप्यते इति । ततश्च नमस्कारपूर्वं कायोत्सर्गं पारयित्वा चतुर्विंशतिस्तवं पठेत् , तदनु जानुपाश्चात्यभागपिण्डिकादि प्रमृज्योपविश्य च श्रीगुरूणां वन्दनकदानार्थं मुखवस्त्रिकां कायं च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिख्य पूर्वोक्तविधिना वन्दनके दद्यात् , एतद्वन्दनकं च कायोत्सर्गावधारितातिचारालोचनार्थं । ततश्च सम्यगवनताङ्गः पूर्वं कायोत्सर्गे स्वमनोऽवधारितान् दैवसिकातिचारान् ‘इच्छाकारेण संदिसह भगवन् ? देवसिअं आलोएमि' इत्यादि सूत्रं चारित्रविशुद्धिहेतुकमुच्चरन् श्रीगुरुसमक्षमालोचयेत् । एवं दैवसिकातिचारालोचनानन्तरं मनोवचनकायसकलातिचारसंग्राहकं 'सव्वस्स वि देवसिय' इत्यादि पठेत् । 'इच्छाकारेण संदिसह भगवन् !' इत्यनेनानन्तरालोचितातिचारप्रायश्चित्तं च मार्गयेत् , गुरवश्च 'पडिक्कमह' इति प्रतिक्रमणरूपं दशविधप्रायश्चित्ते द्वितीयं प्रायश्चित्तमुपदिशन्ति, तच्च मिथ्यादुष्कृतादिरूपम् । उक्तं च - "पडिक्कमणं १ पडियरणा २ पडिहरणा ३ वारणा ४ निअत्ती ५ य । निंदा ६ गरहा ७ सोही ८ पडिक्कमणं अट्ठहा होइ" ॥१॥[आव.नि./१२३३] प्रथमप्रायश्चित्तं त्वालोचनारूपं प्राक्कृतमेव, गुरवः संज्ञादिना प्रायश्चित्तं ददते न तु पडिक्कमह भाषन्ते इत्युक्तं दिनचर्यायाम् । तथा च तद्गाथा - "गंभीरिमगुणनिहिणो, मणवयकाएहिँ विहिअसमभावा । पडिक्कमह त्ति न जंपइ, भणंति तं पड़ गुरू रुट्ठा" ॥१॥[य.दि/२०] रुष्टा इव भणन्तीत्यर्थः ततो विधिनोपविश्य समभावस्थितेन सम्यगुपयुक्तमनसाऽनवस्थाप्रसङ्गभीतेन पदे पदे संवेगमापद्यमानेन दंशमशकादीन् देहेऽगणयता श्राद्धेन सर्वं पञ्चपरमेष्ठिनमस्कारपूर्वं कर्म कर्त्तव्यमित्यादौ स पठ्यते । समभावस्थेन च प्रतिक्रमितव्यमित्यतः सामायिकसूत्रं भण्यते । तदनन्तरं दैवसिकाद्यतीचाराणामोघालोचनार्थं 'इच्छामि पडिक्कमिउं जो मे देवसिअ अइआरो कओ' इत्यादि भण्यते । तदनु श्राद्धप्रतिक्रमणसूत्रं पठ्यते, यावत् 'तस्स धम्मस्स' इति । साधुस्तु सामायिकसूत्रानन्तरं मङ्गलार्थं 'चत्तारि १. “ति-P. || २. रुष्टा इ[व भणन्ती]-मु० मध्ये कोष्ठके C. प्रतौ पार्श्वभागे । रुष्टा इव भणन्तीत्यर्थः L.P. || D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy