________________
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
३७४ ]
तथा - “गोत्रवृद्धैर्नरो नैव, सद्गुणोऽपि प्रणम्यते । अलङ्कृतनृपश्रीस्तु, वन्द्यते नतमौलिभिः ॥ १ ॥ [] एवं न केवलज्ञानी, गृहस्थो नम्यते जनैः । गृहीतचारुचारित्रः, शक्रैरपि स पूज्यते ॥२॥ [ ] अतो दिशन्ति चारित्रं, केवलज्ञानतोऽधिकम् ।
तस्मिन् लब्धेऽपि तल्लब्धं तेन धावन्ति धीधनाः " ॥३॥ [ ] इति हेतोरादौ चारित्राचारविशुद्ध्यर्थं 'करेमि भंते सामाइअं' इत्यादिसूत्रत्रयं पठित्वा द्रव्यतो वपुषा भावतश्च शुद्धपरिणामेनोच्छ्रितोच्छ्रितं वक्ष्यमाणलक्षणं कायोत्सर्गं कुर्यात्, कायोत्सर्गे च साधुः प्रातस्त्यप्रतिलेखनायाः प्रभृति दिवसातिचारांश्चिन्तयति । यतः - ‘“पाभाइअपडिक्कमणाणंतरमुहपुत्तिपमुहकज्जेसु ।
जाव इमो उस्सग्गो, अइआरे ताव चिंतेज्जा" ॥१॥ [ य. दि. / ३३० ] इति । मनसा संप्रधारयेच्च सयणासणेत्यादिगाथाचिन्तनतः, श्राद्धस्तु 'नाणंमि दंसणंमीत्यादिगाथाष्टकचिन्तनतः । ताश्चेमाः -
"नामि दंसणंमिय, चरणंमि तवंमि तहय विरियंमि ।
आयरणं आयारो, इय एसो पंचहा भणिओ ॥१॥ [ द.वै.नि./१८१ ] काले विणए बहुमाणे, उवहाणे तह अनिण्हवणे । वंजणअत्थतदुभए, अट्ठविहो नाणमायारो ॥ २ ॥ [ द.वै.नि./१८४] निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी य । उववूह थिरीकरणे, वच्छल्ल पभावणे अट्ठ ॥३॥ [ द.वै.नि./१८२ ] पणिहाणजोगजुत्तो, पंचहिँ समिईहिँ तीहिँ गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ नायव्वो ॥ ४ ॥ [ द.वै.नि./१८५ ] बारसविहंमि वि तवे, सब्भितरबाहिरे कुसलदिट्ठे । अगिलाई अणाजीवी, नायव्वो सो तवायारो ॥ ५ ॥ [ द.वै.नि./ १८६ ] अणसणमूणोअरिया, वित्तीसंखेवणं रसच्चाओ ।
कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ६ ॥ [ द.वै.नि./ ४७ ] पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ ।
झा उग्गो विअ, अब्भितरओ तवो होइ ॥७॥ [ द.वै.नि./ ४८ ]
१. इदं तु ध्येयं - नाणंमि सूत्रस्य प्रथमा गाथा नन्दिसूत्रे [२९], ३, ६, ७ गाथा उत्तराध्ययने [३०/८, ३०] अपि दृश्यन्ते ॥
D:\new/d-2.pm5\3rd proof