SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३५४] "सामन्ने मणुअत्ते, जं केई पाउणति इह किति । तं मुह निव्विअप्पं, उचिआचरणस्स माहप्पं ॥१॥ [ हि.मा./२७१ ] तं पुण पिइ १ माइ २ सहोअरेसु ३ पणइणि ४ अवच्च ५ सयणेसुं ६ । गुरुजण ७ नायर ८ परतित्थिएस ९ पुरिसेण कायव्वं ॥२॥ [ हि.मा./२७२] तत्र पितृविषयं कायवाग्मनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाह "पिउणो तणुसुस्सू, विणएणं किंकरु व्व कुणइ सयं । वयणं पि से पडिच्छइ, वयणाओ अपडिअं चेव" ॥३॥ [ हि.मा./ २७३ ] तनूशुश्रूषां चरणक्षालन-संवाहनोत्थापन - निवेशनादिरूपाम्, देश-काल- सात्म्यौ - चित्येन भोजन-शयनीय-वसना-ऽङ्गरागादिसम्पादनरूपां च, विनयेन न तु परोपरोधावज्ञादिभिः, स्वयं करोति न तु भृत्यादिभ्यः (भिः) कारयति । यतः - "गुरोः पुरो निषण्णस्य, या शोभा जायते सुनोः । उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः ?" ॥१॥ [ ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः अपडिअं ति वदनादपतितमुच्चार्यमाणमेवादेश: प्रमाणमेष करोमीति सादरं प्रतीच्छति, न पुनरनाकणितशिरोधूननकालक्षेपार्द्धविधानादिभिरवजानाति । “चित्तं पि हु अणुअत्तइ, सव्वपयत्तेण सव्वकज्जेसुं । जीव बुद्धिगुणे, निअसब्भावं पयासेइ" ॥४॥ [ हि.मा./२७४ ] स्वबुद्धिविचारितमवश्यविधेयमपि कार्यं तदेवारभते यत्पितुर्मनोऽनुकूलमितिभावः। बुद्धिगुणान् शुश्रूषादीन् सकलव्यवहारगोचरांश्चोपजीवति अभ्यस्यति, बहुश्वानो पितृप्रभृतयः सम्यगाराधिताः प्रकाशयन्त्येव कार्यरहस्यानि, निजसद्भावं चित्ताभिप्रायं प्रकाशयति 1 " 'आपुच्छिउं पयट्टइ, करणिज्जेसुं निसेहिओ ठाइ । खलिए खरं पि भणिओ, विणीअयं न हु विलंघेइ ॥५॥[ हि.मा./२७५ ] सविसेसं परिपूरइ, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइ वि तहेव ॥६॥ [ हि.मा./२७६ ] तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिल्लणादेरभयकुमारवत् । धर्मानुगतान् सुदेवपूजा-गुरुपर्युपास्ति-धर्मश्रवण-विरतिप्रतिपत्त्यावश्यकप्रवृत्ति-सप्तक्षेत्रीवित्तव्ययतीर्थयात्रा-दीनानाथोद्धरणादीन् मनोरथान् सविशेषं बह्वादरेणेत्यर्थः । कर्त्तव्यमेव चैतत् १. P. सं० श्राद्धविधौ च । सुणह - मु० मूल P. ॥ २. भृत्यादिभ्यः L.P.C. ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy