________________
देशकालाविरुद्धस्वरूपम्-श्लो० ६३॥]
[३५३ राजविरुद्धं च राज्ञः सम्मतानामसम्माननम् , राज्ञोऽसम्मतानां सङ्गतिः, वैरिस्थानेषु लोभाद् गतिर्वैरिस्थानागतैः सह व्यवहारादि, राजदेयभागशुल्कादिखण्डनमित्यादि ३। लोकविरुद्धं तु लोकस्य निन्दा विशिष्यस्य च गुणसमृद्धस्येयम् , आत्मोत्कर्षश्च । यत: -
"परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म ।
नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥१॥ [ प्रश./१०० ] तथा ऋजूनामुपहासः । गुणवत्सु मत्सरः, कृतघ्नत्वं च, बहुजनविरुद्धैः सह सङ्गतिः, जनमान्यानामवज्ञा, धर्मिणां स्वजनानां वा व्यसने तोषः, शक्तौ तदप्रतिकारो, देशाधुचिताचारलङ्घनम् , वित्ताद्यननुसारेणात्युद्भटातिमलिनवेशादिकरणम् , एवमादिलोकविरुद्धमिहाप्यपकीर्त्यादिकृत् । यदाह वाचकमुख्यः -
"लोकः स्वल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् ।
तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥१॥ [ प्रश./१३१] तत्त्यागे च जनानुरागस्वधर्मनिर्वाहरूपो गुणः । आह च -
"एआइँ परिहरंतो, सव्वस्स जणस्स वल्लहो होइ।
जणवल्लहत्तणं पुण, नरस्स सम्मत्ततरुबीयं" ॥१॥ [हि.मा./३४८] अथ धर्मविरुद्धं चैवं -मिथ्यात्वकृत्यम् , निर्दयं गवादेस्ताडनबन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विदृढबृहद्गलनकेन सङ्घारादिसत्यापनादियुक्त्या जलगालने धान्येन्धन-शाकताम्बूल-फलादिशोधनादौ च सम्यगप्रवृत्तिः । अक्षत-पूग-खारिक-वालु-ओलिफलकादेर्मुखे क्षेपः । नालकेन धारया वा जलादिपानम् , रन्धन-खण्डन-पेषण-घर्षणमलमूत्रश्लेष्मगण्डूषादिजलताम्बूलत्यागादौ सम्यगयतना । धर्मकर्मण्यनादरो, देव-गुरुसाधर्मिषु विद्वेषश्चेत्यादि । तथा देव-गुरु-साधारणद्रव्यपरिभोगो, निर्द्धर्मसंसर्गो, धार्मिकोपहासः, कषायबाहुल्यम् , बहुदोषः, क्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिरेवमादि धर्मविरुद्धम् । देशादिविरुद्धानामपि धर्मवता आचरणे धर्मनिन्दोपपत्तेधर्मविरुद्धतैव ५। तदेवं पञ्चविधं विरुद्धं श्राद्धेन परिहार्यमिति देशादिविरुद्धत्यागः ।
तथोचितस्योचितकार्यस्याचरणं -करणम् उचिताचरणम् , तच्च पित्रादिविषयं नवविधम् , इहापि स्नेहवृद्धिकीर्त्यादिहेतुहितोपदेशमालागाथाभिः प्रदर्श्यते –
१. L.P.C. । ताडनबन्ध(वध)बन्धनादि-मु० ॥ २. तुला-श्राद्धविधिवृत्तिः प० १०५ ॥
D:\new/d-2.pm5\3rd proof