________________
पार्श्वस्थादीनां वन्दनविधिः-श्लो० ६३॥]
[३४५ मुक्ता संयमधूर्येन सः, सम्प्रकटं प्रवचनोपघातनिरपेक्षमेव मूलोत्तरगुणजालं प्रतिसेवितुं शीलमस्येति, ततो द्वन्द्वः । एतेन सालम्बनप्रतिसेवी वन्द्य एवेत्यापन्नम् । उक्तमपि कल्पभाष्ये, पार्श्वस्थानां वन्द्याऽवन्द्यत्वविवेकप्रस्तावे
"संकिन्नवराहपदे, अणाणुतावी अ होइ अवरद्धे।
उत्तरगुणपडिसेवी, आलंबणवज्जिओ वज्जो ॥१॥[बृ.क.भा./४५२४] मूलगुणप्रतिसेवी नियमादचारित्री, स च स्फुटमेवावन्दनीय इति न तद्विचारणा, उत्तरगुणसेविनस्तु विचारणेतिभावः । नन्वेवमादापन्नं सालम्बन उत्तरगुणप्रतिसेव्यपि वन्दनीयः ?, सूरिराह -न केवलं स एव वन्द्यः, किन्तु मूलगुणप्रतिसेव्यप्यालम्बनसहितः, कथमिति चेद् ? उच्यते -
"हिट्ठट्ठाणठिओ वि हु , पावयणि गणट्ठया उ अधरे उ।
कडजोगि जं निसेवइ, आइनिअंठु व्व सो पुज्जो ॥२॥[ बृ.क.भा./४५२५ ] प्रावचनिकस्याचार्यस्य गच्छस्यानुग्रहार्थमधरे आत्यन्तिके कारणे समुपस्थिते कृतयोगी गीतार्थः ।।
"कुणमाणो अकडणं( अ अकज्जं) कयकरणो दोसमेवमब्भेइ ।
अप्पेण बहुं इच्छइ, विसुद्धआलंबणो समणो ॥३॥[बृ.क.भा./४५२६ ] सदृष्टान्तं फलितमाह - "तुच्छमवलंबमाणो, पडइ निरालंबणो अ दुग्गंमी।
सालंबणिरालंबे, अह दिटुंतो णिसेवंते ॥४॥[बृ.क.भा./४५३१] अत एव-“दंसणनाणचरितं, तवविणयं जत्थ जत्तिअं पासे ।
जिणपण्णत्तं भत्तीइ, पूअए तं तहिं भावे ॥१॥[बृ.क.भा./४५५३] इत्यलं प्रसक्तानुप्रसक्तेन, सम्बन्धगाथाया एव शेषमर्थं प्रस्तुमः । तथा चरणकरणाभ्यां प्रकर्षेण भ्रष्टस्ततोऽपि पूर्वेण द्वन्द्वः । इत्थम्भूते लिङ्गावशेषमात्रे केवलद्रव्यलिङ्गयुक्ते, यत् क्रियते किमपि तत्पुनर्वक्ष्ये, पुन:शब्दो विशेषणार्थः किं विशेषयति ? कारणापेक्षं कारणमाश्रित्य यत् क्रियते तद्वक्ष्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एवेति । किं तत् क्रियते ? इत्यत आह -
"वायाइ नमुक्कारो, हत्थुस्सेहो अ सीसणमणं च ।
संपुच्छणांछणं छोभवंदणं वंदणं वा वि ॥३॥ [बृ.क.भा./४५४५ ] १. सः तथा-L.P. ।। २. प्रसक्तानु-C.-प्रतौ पार्श्वभागे, मु० मध्ये [ ] कोष्ठके ॥
D:\new/d-2.pm5\3rd proof