________________
३४४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः निमन्त्रणं क्रियते । ततश्च यथाविधि साध्वादिचतुर्विधं सङ्घ वन्दते इत्युक्तं श्रावकदिनकृत्ये, तथा च तद्ग्रन्थः -
"साहुसाहुणिमाईणं, काऊणं च जहोचिअं।।
समणोवासगमाईणं, वंदे वंदे त्ति जंपइ ॥१॥[श्रा.दि./८५ ] वृत्तिः -यथा साधु-साध्व्यादीनाम् आदिशब्दादवमग्नानां च, निश्राकृते चैत्ये तेषामपि भावात् , यथोचितं यथायोग्यम् , वन्दन-छोभवन्दन-वाग्नमस्कारादिकं कृत्वा, यतोऽवमग्नानामपि कारणेन सूत्रे नमस्कारादेरुक्तत्वात् । यदार्षं चोदकप्रश्नपूर्वकं यतिमाश्रित्य -
"जइ लिंगमप्पमाणं, न नज्जई निच्छएण को भावो।
दट्ठण समणलिंगं, किं कायव्वं तु समणेणं? ॥१॥[आव.नि./११२४] व्याख्या -यदि लिङ्गं द्रव्यलिङ्गमप्रमाणम् अकारणं वन्दनप्रवृत्ती, इत्थं तर्हि न ज्ञायते नावगम्यते, निश्चयेन परमार्थेन, छद्मस्थेन जन्तुना कस्य को भावः, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयम(त)वच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति । तदेवं(वम)व्यवस्थितं दृष्ट्वाऽवलोक्य श्रमणलिङ्ग-साधुलिङ्गं किं पुनः कर्त्तव्यं श्रमणेन साधुना ? । एवं चोदकेन पृष्टः सन्नाचार्यः प्राह -
"अप्पुव्वं दट्ठणं, अब्भुट्ठाणं तु होइ कायव्वं ।
साहुमि दिट्ठपुव्वे, जहारिहं जस्स जं जोग्गं" ॥२॥[आव.नि./११२५] अष्टपूर्वं साधुं दृष्ट्वाऽऽभिमुख्येन अभ्युत्थानम् आसनत्यागलक्षणं तुशब्दाद् दण्डकादिग्रहणं च कर्त्तव्यम् , किमिति? कदाचिदाचार्यादिविद्यातिशयसम्पन्न: तत्प्रदानायैवागतो भवेत् , प्रशिष्यसकाशमाचार्यकालिकवत् , स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति । तथा दृष्टपूर्वास्तु द्विप्रकाराः -उद्यतविहारिणः शीतलविहारिणश्च, तत्रोद्यतविहारिणि दृष्टपूर्वे यथायोग्यम् अभ्युत्थानवन्दनादि यस्य बहुश्रुतादेर्यद्योग्यं तत्कर्त्तव्यं भवति । यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सर्गतः किञ्चित् कर्त्तव्यमिति । साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाया सम्बन्धगाथामाह -
"मुक्कधुरासंपाडगसेवीचरणकरणपब्भटे।
लिंगावसेसमेत्ते, जं कीरइ तं पुणो वोच्छं ॥३॥[बृ.क.भा./४५४४] १. 'मग्ना(सन्ना)नां-मु० | L.P. श्राद्धदिनकृत्यवृत्तावपि मग्नानां- ॥ २. संभवात्-इति श्राद्धदिनकृत्यवृत्तौ ॥ ३. वन्दनं छोभ इति श्राद्धदिनकृत्योवृत्तौ ।।
D:\new/d-2.pm5\3rd proof