SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ धर्मश्रवणविधिः-श्लो० ६३॥] [३४३ भूभागेऽवस्थाय धर्मदेशना श्रोतव्या । तच्छ्रवणेन चाज्ञानव्यपगम-सम्यक्तत्त्वावगमनि:संशयत्व-धर्मदृढत्व-व्यसनाद्युन्मार्गनिवृत्ति-सन्मार्गप्रवृत्ति-कषायादिदोषोपशमविनयादिगुणार्जनोपक्रम-कुसंसर्गपरिहरण-सुसंसर्गाङ्गीकरण-भवनिर्विण्णता-सम्यक्श्राद्धसाधुधर्माभ्युपगमन-सर्वाङ्गीणतदैकाग्र्याराधनप्रमुखा अनेके गुणाः प्रकटा एव । ततः किं कर्त्तव्यम् ? इत्याह –'अशनादिनिमन्त्रणम् इति, अशनादिभिरशन-पानखादिम-स्वादिम-वस्त्र-पात्रकम्बल-पादप्रोञ्छन-प्रातिहारिक-पीठफलक-शय्यासंस्तारकौषधभैषज्यादिभिर्निमन्त्रणम् , प्रस्तावाद् गुरोरेव, तच्च गुरोः पदोर्लगित्वा "इच्छकारि भगवन् ! पसाओगरी फासुएणं एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पंडिग्गह -कंबल-पायपुंछणेण पाडिहारिअ-पीढ-फलग-सिज्जा-संथारेणं ओसह-भेसज्जेण य भयवं ! अणुग्गहो कायव्वो" त्ति पाठपूर्वं भक्त्या कार्यम् । एतच्चोपलक्षणं शेषकृत्यप्रश्नस्यापि । यतो दिनकृत्ये - "पच्चक्खाणं च काऊणं, पुच्छए सेसकिच्चयं । कायव्वं मणसा काउं, तओ अण्णं करे इमं" ॥१॥[ श्रा.दि./८४] पुच्छए इत्यादि, पृच्छति साधुधर्मनिर्वाहशरीरनिराबाधवान्द्यशेषकृत्यम् , यथा निर्वहति युष्माकं संयमयात्रा सुखम् ? रात्रिर्गता भवताम् !, निराबाधाः शरीरेण यूयम् ?, न बाधते वः कश्चिद् व्याधिः ?, न प्रयोजनं किञ्चिदौषधादिना ?, नार्थः कश्चित् पथ्यादिना ?, इत्यादि । एवंप्रश्नश्च महानिर्जराहेतुः । यदुक्तम् - "अभिगमणवंदणनमंसणेणं पडिपुच्छणेण साहूणं । चिरसंचिअंपि कम्मं, खणेण विरलत्तणमुवेइ ॥१॥[उ.मा./१६६] इति । प्राग्वन्दनावसरे च सामान्यतः सुहराई सुहतपसरीरनिराबाधेत्यादिप्रश्नकरणेऽपि विशेषेणात्र प्रश्नः सम्यक् स्वरूपपरिज्ञानार्थस्तदुपायकरणार्थश्चेति प्रश्नपूर्वं निमन्त्रणं युक्तिमदेवेति । सम्प्रति त्विदं निमन्त्रणं गुरूणां बृहद्वन्दनदानान्तरं श्राद्धाः कुर्वन्ति, येन च प्रतिक्रमणं गुरुभिः सह कृतम् , स सूर्योदयादनु यदा स्वगृहादौ याति तदा तत् करोति, येन च प्रतिक्रमणं बृहद्वन्दनकं चेत्युभयमपि न कृतम् , तेनापि वन्दनाद्यवसरे एवं १. तुला-श्राद्धविधिवृत्तिः- प० ८४ ॥ २. [पडिग्गह]-मु० । L.P. प्रत्योः C. प्रतौ पार्श्वभागे श्राद्धविधिवृत्तावपि अस्ति ।। ३. तु-इति श्राद्धदिनकृत्ये ।। ४. च मणे-इति श्राद्धदिनकृत्ये । ५. साधुकर्म शरीर इति श्राद्धदिनकृत्यवृत्तौ प० २४२ ॥ ६. P. | च-मु० नास्ति । स च-L. || D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy