________________
३४२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः प्रतिपन्नपञ्चमी-चतुर्दश्यादितपोविशेषणापि तपोदिने तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभक्षणकियद्भोजनादौ कृते तपोदिनज्ञाने मुखान्तःस्थमपि न गिलनीयम् , किन्तु तत् त्यक्त्वा प्रासुकवारिणा मुखशुद्धि विधाय तपोरीत्यैव स्थेयम् , यदि न तद्दिने पूर्णं भुक्तम् तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्य, तप:समाप्तौ च तत्तपो वर्द्धमानं कार्यम् , एवं चातिचारः स्यात् न तु भङ्गः, तपोदिनज्ञानानन्तरं सिक्थादिमात्रगिलने तु भङ्ग एव। दिनसंशये कल्प्याऽकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गः स्यात् । तथाऽऽगाढमान्ये भूतादिदोषपारवश्यके सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्यते, तदापि तुर्याकारोच्चारान्न भङ्ग इत्यादिविवेकः श्राद्धविधिगतो ज्ञेय इत्यलं प्रसङ्गेन ॥६२॥ अथ प्रत्याख्यानकरणानन्तरं यत् कर्त्तव्यं तदाह -
धर्मोपदेशश्रवणमशनादिनिमन्त्रणम् ।
गत्वा यथोचिते स्थाने, धर्म्यमर्थार्जनं तथा ॥६३॥ धर्मः -श्रुतचारित्रलक्षणस्तस्योपदेशो -देशना तस्य श्रवणं श्रुतिविशेषतो गृहिधर्मो भवतीति योगः, एवमग्रेऽपि, धर्मश्रवणादेव हि श्रावकशब्दोऽन्वेति, तद्विधिस्त्वेवं दिनकृत्ये -
"नासन्ने नाइदूरंमि, नेव उच्चासणे विऊ । समासणं च वज्जिज्जा, चिट्ठिज्जा धरणीअले ॥१॥[ श्रा.दि./८६ ] न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ। न य ऊरुं समासज्ज, चिट्ठिज्जा गुरुणंतिए ॥२॥ [ श्रा.दि./८७ ] "नेव पल्हत्थिअंकुज्जा, पक्खपिंडं च संजए।
पाए पसारिए वा वि, न चिट्ठे गुरुणंतिए ॥३॥ [ श्रा.दि./८८] 'पक्खपिंडं' बाहुपर्यस्तिकां 'संजए' इति प्रस्तावाद् देशसंयत इति तवृत्तिः ॥३॥
[श्राद्धदिनकृत्यवृत्तौ प० २४३] "निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं ।
भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेअव्वं ॥४॥[पञ्च./१००६ ] इत्यादिश्रुतोक्तविधिना गुरोराशातनावर्जनार्थमर्धचतुर्थहस्तप्रमाणादवग्रहक्षेत्राद् बहिनिर्जन्तु
१. L.P. । “पान मु० C. नास्ति ।। २. L.P. | तस्येति योगः [श्रवणं श्रुतिर्विशेषतो गृहिधर्मो भवतीति योगः] मु० C. प्रतौ पार्श्वभागे च ॥ ३. तुला-श्राद्धविधिवृत्तिः प० ८२ ॥
D:\new/d-2.pm5\3rd proof