________________
३४६ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
'वायाए त्ति' निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते, कीदृशस्त्वम् ? इत्यादि । सम्प्रच्छनं कुशलस्य, 'अंछणं ति' बहुमानं तत्संनिधावासनं कियत्कालमिति । एष बहिर्दृष्टस्य विधिः । कारणविशेषे तु तत्प्रतिश्रयेऽपि गम्यते, तत्राप्येष एव विधिरग्रेतनोऽपि च । कारणान्याह -
"परिआय-परिस-पुरिसं, खेत्तं कालं च आगमं नच्चा ।
कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥४॥ [ बृ. क. भा. / ४५५० ] पर्यायो ब्रह्मचर्यं तत्प्रभूतकालं ये पालितम्, परिषद्विनीता साधुसंहतिस्तत्प्रतिबद्धा, पुरुषं, ज्ञात्वा, कथं ? कुल - गण - सङ्घकार्याण्यस्यायत्तानीति, एवं तदधीनं क्षेत्रमिति, कालम्, अवमप्रतिजागरणमस्य गुण इति, आगमं सूत्रार्थोभयरूपमस्यास्तीति ज्ञात्वेति । साम्प्रतमेतदकरणे दोषमाह
‘“एआइँ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे ।
ण भवइ पवयणभत्ती, अभत्तिमंताइआ दोसा ॥५॥ [ बृ.क. भा. / ४५४९] तथा- “उपन्नकारणंमि, किइकम्मं जो न कुज्ज दुविहं पि ।
पासत्थाईआणं, उग्घाया तस्स चत्तारि ॥१॥ [ बृ.क. भा. / ४५४०] दुविहं पीति अभ्युत्थान- वन्दनलक्षणमित्यलं प्रसङ्गेन । प्रकृतमनुसरामः । तथा श्रमणोपासकादीनामादिशब्दाच्छ्राविकाणां च वन्दे वन्द इत्यपभ्रंशभाषया जल्पति, वन्दे वन्दे इति वा क्रिया, द्वित्वे सर्वान् श्रावकान् श्राविकाश्च नमस्कुर्व इत्यर्थः, इति । अथ कदाचित् सूरिस्तत्र चैत्ये नागतस्तदोपाश्रये स्वद्धय गत्वा वन्दनादिः सकलोऽपि विधिः कार्यो । यतो दिनकृत्ये
—
" अह धम्मदेसणत्थं च, तत्थ सूरी न आगओ ।
पुव्वत्तेण विहाणेणं, वसहीए गच्छए तओ ॥१॥ [ श्रा.दि./१४६ ] त्ति । ततः किं कर्त्तव्यम् ? इत्याह - तथेत्यादि, तथेति धर्मान्तरसमुच्चयार्थः, 'यथोचिते' यथायोग्ये स्थाने हट्टादौ, 'गत्वा' गमनं कृत्वा 'धर्म्यं' धर्माविरुद्धं धर्मात् स्वयंस्वीकृतव्रताभिग्रहादिरूपाद् व्यवहारशुद्ध्यादेर्वाऽनपेतमिति व्युत्पत्तेः, 'अर्थार्जनं' द्रव्योपार्जनकरणम्, अन्वयः प्राग्वदेव। यथोचितमिति यदा राजादिस्तदा धवलगृहम्, यद्यमात्यादिस्तदा करणम् अथ वणिगादिस्तदा आपणमिति ।
"
१. L. P. । धर्माविरुद्धं मु० मध्ये कोष्ठके [ ], C. प्रतौ पार्श्वभागे ॥
D:\new/d-2.pm5\3rd proof