SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३३४] । [धर्मसंग्रहः-द्वितीयोऽधिकारः आचामोऽवश्रावणम् , अम्लं चतुर्थो रसः, त एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्माष-सक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत्प्रत्याख्याति -आचामाम्लप्रत्याख्यानं करोतीत्यर्थः । आद्यावन्त्याश्च त्रय आकाराः पूर्ववत् ।। 'लेवालेवेणं' लेपो भोजनभाजनस्य विकृत्या तीमनादिना वा आचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चाले पश्च लेपालेपम् तस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः । 'उक्खित्तविवेगेणं' शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्योद्धृतस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः, उत्क्षिप्य त्याग इत्यर्थः, तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इति भावः । यत् तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः। _ 'गिहत्थसंसटेणं' गृहस्थस्य भक्तदायकस्य सम्बन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टम् , ततोऽन्यत्र । विकृत्यादिसंसृष्टभाजनेन हि दीयमानं भक्तमकल्प्यद्रव्यावयवमिश्रं भवति, न च तद्भुञ्जानस्यापि भङ्गः, यद्यकल्प्यद्रव्यरसो बहु न ज्ञायते । 'वोसिरइ' इति अनाचामाम्लं चतुर्विधाहारं च व्युत्सृजति । अथाभक्तार्थप्रत्याख्यानं -तत्र पञ्चाकाराः, यत्सूत्रम् –सूरे उग्गए अभत्तटुं पच्चक्खाइ, चउव्विहं पि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह" । 'सूरे उग्गए' सूर्योद्गमादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध इत्याह। भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः, न भक्तार्थो ऽभक्तार्थः, अथवा न विद्यते भक्तार्थो यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः । आकाराः पूर्ववत् । नवरं 'पारिष्ठापनिकाकारे विशेषः -यदि त्रिविधाहारस्य प्रत्याख्याति, तदा पारिष्ठापनिकं कल्पते, यदि च चतुविधाहारस्य प्रत्याख्याति, पानकं च नास्ति, तदा न कल्पते, पानके तूद्धरिते कल्पते । 'वोसिरइ' इति भक्तार्थमशनादि च व्युत्सृजति । १. तुला-आवश्यचूर्णिः प० ३१७, आवश्यकहारिभद्रीयटीका प० ८५४-५, पञ्चाशकटीका प० ९३ ॥ २. प्रवचनसोराद्धारवृत्तो-शुष्कौ इति । शुष्को मु० L.P.C. || ३. स्योवृत्तस्य-मु० । 'स्योद्धतस्य-यो० टी० ॥ ४. चतुर्विधाहारं च-योगशास्त्र-प्रवचनसारोद्धारवृत्त्यो स्ति ।। ५. उगएमु० ॥ ६. तु यो० टी०, प्रव० सारो० टी० ॥ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy