________________
प्रत्याख्यानस्वरूपम्-श्लो० ६२॥]
[३३५ __ अथ पानकम् -तत्र पौरुषी-पूर्वार्द्धंकाशनैकस्थाना-ऽऽचामाम्ला-ऽभक्तार्थप्रत्याख्यानेषूत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं न्याय्यम् । यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य षडाकारा भवन्ति । यत्सूत्रम् - __ "पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिड"। __इह 'अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वाद् ‘लेवाडेण व त्ति' कृतलेपाद्वा पिच्छिलत्वेन भाजनादीनामुपलेपकात् खर्जुरादिपानकादन्यत्र तद्वर्जयित्वेत्यर्थः । त्रिविधाहारं 'व्युत्सृजति' इतियोगः, वाशब्दो लेपकृतपानकापेक्षया अवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेर्न भङ्ग इति भावः । ग्रं० ७००० । एवमलेपकृताद्वा अपिच्छिलात् सौवीरादेः, अच्छाद्वा निर्मलादुष्णोदकादेः, बहुलाद्वा गडुलात् तिलतन्दुलधावनादेः, ससिक्थाद्वा भक्तपुलाकोपेतादवश्रावणादेः, असिक्थाद्वा सिक्थवजितात् पानकाहारात् ।
अथ चरमम् -चरमोऽन्तिमो भागः, स च दिवसस्य भवस्य चेति द्विधा । तद्विषयं प्रत्याख्यानमपि चरमम् । इह भवचरमं यावज्जीवम् , तत्र द्विविधेऽपि चत्वार आकारा भवन्ति । यत्सूत्रम् -
"दिवसचरमं भवचरमं वा पच्चक्खाइ, चउव्विहं पि आहारं असणं पाणं खाइम साइमं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिड"।
ननु दिवसचरमप्रत्याख्यानं निष्फलम् । एकाशनादिप्रत्याख्यानेनैव गतार्थत्वात् । नैवम् , एकाशनादिकं ह्यष्टाद्याकारमेव, एतच्च चतुराकारमत आकाराणां सङ्क्षपकरणात् सफलमेव, अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वात् । गृहस्थापेक्षया पुनरिदमादित्योद्गमान्तम् । दिवसस्याहोरात्रमितिपर्यायतयापि दर्शनात् । तत्र च येषां रात्रिभोजननियमोऽस्ति, तेषामपीदं सार्थकम् , अनुवादत्वेन स्मारकत्वात् । भवचरमं तु व्याकारमपि भवति । यदा जानाति महत्तर-सर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनं तदा अनाभोग-सहासाकाराकारौ
१. बहलेण-यो० टी० [प० ७१७] प्रव० सारो० टी० प० १३० ॥ २. लेपकारका यो० टी० ॥ ३. ब्दोऽलेप यो० टी० ॥ ४. अपिच्छ पञ्चाशकटीका, प्रव० सारो० टी० प० १३० ॥ ५. बहला' पञ्चाशकवृत्तौ प्रव० सारो० टी० कायाञ्च ॥ ६. दिवसचरिमं-यो० टी०, प्रव०, सारो० टी० ॥
D:\new/d-2.pm5\3rd proof