________________
प्रत्याख्यानस्वरूपम्-श्लो० ६२॥]
[३३३ स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि न भङ्गः । गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति तदादिः सागारिकः ।
'आउंटणपसारणेणं' आउण्टणम् आकुञ्चनं जवादेः सङ्कोचनम् , प्रसारणं च तस्यैवाऽऽकुञ्चितस्य ऋजुकरणम् , आकुञ्चने प्रसारणे चासहिष्णुतया क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र ।
'गुरुअब्भुट्ठाणेणं' गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघूर्णकस्य वाभ्युत्थानं प्रतीत्यासनत्यजनं गुर्वभ्युत्थानम् ततोऽन्यत्र । अभ्युत्थानं चावश्यकर्त्तव्यत्वाद् भुञ्जानेनापि कर्त्तव्यमिति न तत्र प्रत्याख्यानभङ्गः ।
'पारिट्ठावणियागारेणं' साधोरेव, यथा परिष्ठापनं -सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नम् , तदेवाकार: पारिष्ठापनिकाकारस्ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसम्भवादाश्रीयमाणे चागमिकन्यायेन गुणसम्भवाच्च तस्य गुर्वाज्ञया पुनर्भुञ्जानस्य न भङ्गः।
"विहिगहिअं विहिभुत्तं, उद्धरिअं जं भवे असणमाई।
तं गुरुणाणुन्नायं, कप्पइ आयंबिलाईणं" ॥१॥[ आ.नि./१६११] श्रावकस्त्वखण्डसूत्रत्वादुच्चरति । 'वोसिरइ' इति अनेकासनमनेकाशनाद्याहारं च परिहरति ।
अथैकस्थानकम् -तत्र सप्ताकाराः, अथ सूत्रम् –“एगट्ठाणं'पच्चक्खाई" इत्याद्येकासनवदाकुञ्चनप्रसारणाकारवनँ। एकमद्वितीयं स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम् । यद्यथा भोजनकालेऽङ्गोपाङ्गं स्थापितं तस्मिंस्तथा स्थापित एव भोक्तव्यम् , मुखस्य पाणेश्चाशक्यपरिहारत्वाच्चलनं न प्रतिषिद्धम् । आकुञ्चनप्रसारणाकारवर्जनं च एकाशनतो भेदज्ञापनार्थम् । अन्यथा एकाशनमेव स्यात् ।
अथाचामाम्लं -तत्राष्टावाकाराः, अथ सूत्रम् – “आयंबिलं पच्चक्खाइ, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पारिद्धावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरह" ॥
१. तदा हि-मु० C. I तदादिः सागारिक:-L. यो० टी० प० ७१४ । तत्प्रमुखः सागारिक:प्रवचनसारोद्धारटीका । भा० १ प० १२७ ।। २. ऋजूकरणं-योगशास्त्र [प० ७१५]प्रवचनसारोद्धार[प० १२८]वृत्त्योः ॥ ३. तं प्रतीत्या यो० टी० । तमाश्रित्या प्रवचनसारोद्धारटीका ।। ४. तस्य-यो० टी० प्रव० सारो० टी० नास्ति ।। ५. स्थित-यो० टी० प्रव० सारो० टी० ॥
D:\new/d-2.pm5\3rd proof