________________
प्रत्याख्यानस्वरूपम्-श्लो० ६२॥]
[३२९ ____ अनेकधेति श्राद्धविधिवृत्तौ [ प० ४५ ] यथा -सुण्ठी-हरितकी-पिप्पलीमरीच-जीरक-अजमक-जातिफल-जावन्त्रीक-सेल्लक-कत्थक-खदिरवटिकाजेष्ठीमधु-तमालपत्र-एलालविङ्ग-काठी-विडङ्ग-विडलवण-अज्जक-अजमोदकुलिञ्जण-पिष्पलीमूल-चिणीकबाबा-कव्वूरक-मुस्ता-कंटासेलिओ-कर्पूर-सौर्वचलहरडां-बिभीतक-कुम्भठो-बब्बूल-धव-खदिर-खीचडादिकछल्ली-पत्र-पूगहिङ्गलाष्टक-हित्रेवीसु-पञ्चकूल-जवासकमूल-वावची-तुलसी-कर्पूरीकन्दादिकम् ।
जीरकं स्वभाष्यप्रवचनसारोद्धाराभिप्रायेण स्वाद्यम् , कल्पवृत्त्यभिप्रायेण तु खाद्यम् , अजमकं खाद्यमिति केचित् । सर्वं स्वाद्यं एलाकर्पूरादिजलं च द्विविधाहारप्रत्याख्याने कल्पते । वेसण-विरहाली-सोआ-कोठवडी-आमलागण्ठी-आंबागोली-कउचिली-चूइपत्रप्रमुखं खाद्यत्वाद् द्विविधाहारे न कल्पते ।।
त्रिविधाहारे तु जलमेव कल्पते । शास्त्रेषु मधु-गुड-शर्करा-खण्डाद्यपि खाद्यतया द्राक्षाशर्करादिजलं तक्रादि च पानकतयोक्तमपि द्विविधाहारादौ न कल्पते । उक्तं च -
"दक्खापाणाईअं, पाणं तह साइमं गुडाईअं।
पढिअं सुअंमि तह वि हु , तित्तीजणगंति नायरिअं" ॥१॥[ नाग.प्रत्या.भा.] अनाहारतया व्यवह्रियमाणान्यपि प्रसङ्गतो दर्श्यन्ते यथा –पञ्चाङ्गनिंब-गुडूचीकडू-किरिआतुं-अतिविस-चीडि-सूकडि-रक्षा-हरिद्रा-रोहिणी-उपलोट-वज्रत्रिफला-बाउलछल्लीत्यन्ये धमासो-नाहिआ-सन्धिरीङ्गणी-एलीओ-गुग्गुलहरडीदल-वउणि-बदरी-कंथेरिकरीरमूल-पूंआड-मजीठ-बोल-बीउ-कुंआरि-चीत्रककुन्दरुप्रभृत्यनिष्टास्वादानि रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानीति [ श्राद्धविधिवृत्तौ प० ४५ ] कृतं प्रसङ्गेन ।
अत्र नियमभङ्गभयादाकारावाह –'अन्नत्थणाभोगेणं सहसागारेणं', अत्र पञ्चम्यर्थे तृतीया, अन्यत्रेति परिवर्जनार्थः, यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योद्धाः पराङ्मुखाः' इति, ततोऽन्यत्रानाभोगात् सहसाकाराच्च, एतौ वर्ज्जयित्वेत्यर्थः । तत्रानाभोगोऽत्यन्तविस्मृतिः । सहसाकारोऽतिप्रवृत्तयोगानिवर्त्तनमिति ।
१. श्राद्धविधिवृत्तौ यथा-मु० नास्ति ॥ २. "बिड L.P. || ३. गा० २१० टीका दृष्टव्या ॥ ४. 'द् द्विधा मु० ॥ ५. L.P. I गुग्गुल-मु० नास्ति । 'गूगुल' श्राद्धविधिवृत्तौ ॥ ६. चूणि L. || ७. तुला-योगशास्त्रटीका प० ७११ ॥ ८. प्रवृत्ति इति आवश्यकहारिभद्रयां वृत्तौ, पञ्चवस्तु [प० ९१] पञ्चाशक[प० ८३] योगशास्त्रवृत्तिषु- प्रवृत्त इति ।
D:\new/d-2.pm5\3rd proof