________________
३३० ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
अथ पौरुषीप्रत्याख्यानम् – "पोरुसिं पच्चक्खाइ, उग्गए सूरे चउव्विहं पि आहारं असणं ४, अण्णत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहूवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ" । [ प्रत्याख्यानावश्यके, हारिभद्रीयवृत्तिः प० ८५२ ]
पुरुषः प्रमाणस्याः सा पौरुषी छाया, कथम् ? कर्कसङ्क्रान्तौ पूर्वाह्णेऽपराह्ने वा यदा शरीरप्रमाणा छाया स्यात् तदा पौरुषी, तद्युक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः । तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति, तदा सर्वदिनेषु पौरुषी । यद्वा पुरुषस्योर्ध्वस्य दक्षिणकर्णनिवेशितार्कस्य दक्षिणायनाद्यदिने यदा जानुच्छाया द्विपदा तदा पौरुषी । यथा -
"आसाढे मासे दुपया,
चित्तासोएस मासेसु, तिपया होइ पोरुसी ॥१॥ [ ओघ.नि./२८४ ]
हानिवृद्धी त्वेवम् –
पोसे मासे चउप्पया ।
""
'अङ्गुलं सत्तरत्तेणं, पक्खेण तु दुअंगुलं ।
वद्धए हायए वा वि, मासेणं चउरंगुलं" ॥१॥ [ ओघ.नि/२८५ ] इति । 'साहूवयणेणं इत्यत्र च पादोन प्रहरेणाप्यधिकारः, अतस्तत्र पौरुषीच्छायोपरि प्रक्षेपोऽयं -
"जिट्ठामूले आसाढसावणे छहिँ अंगुलेहिं पडिलेहा ।
अट्ठहिँ बीअतइअंमि, तइए दस अट्ठहिँ चउत्थे ॥१॥ [ य.दि./४८ ]
पौरुषीप्रत्याख्यानसमानप्रत्याख्याना सार्द्धपौरुषी त्वेवम् -
‘“पोसे तणुछायाए, नवहिँ पएहिं तु पोरिसी सड्ढा । तावेक्केक्का हाणी, जावासाढे पया तिन्नि" ॥१॥ [ ] पूर्वार्द्धाऽग्रे वक्ष्यमाणोऽपि प्रमाणप्रस्तावादिहैव विज्ञेयः
"
" पोसे विहत्थिछाया, बारसअंगुलपमाण पुरिमद्धे । मासि दुअंगुलहाणी, आसाढे निट्ठिआ सव्वे ॥१॥[] सुखावबोधार्थं स्थापना चैषाम् -
१. तुला - श्राद्धदिनकृत्यटीका प० २३० ॥ २. 'तार्कबिम्बस्य - इति श्राद्धदिनकृत्यवृत्तौ ॥
D:\new/d-2.pm5\3rd proof
-