________________
३२८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः विशेषणात् । अथ मुहूर्त्तशब्दो न श्रूयते तत्कथं तस्य विशेष्यत्वम् ? । उच्यते – अद्धाप्रत्याख्यानमध्येऽस्य पाठबलात् , पौरुषीप्रत्याख्यानस्य च वक्ष्यमाणत्वादवश्यं तदर्वाग्मुहूर्त एवावशिष्यते । अथ मुहूर्तद्वयादिकमपि कुतो न लभ्यते ? । उच्यते - अल्पाकारत्वादस्य, पौरुष्यां हि षडाकारास्तदस्मिन् प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते । स च नमस्कारेण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् , सत्यपि नमस्कारपाठे मुहूर्त्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । तत् सिद्धमेतद् -मुहूर्तमानकालं नमस्कारसहितप्रत्याख्यानमिति ।
अथ चतुर्विधाहारमेव व्यक्त्या प्रदर्शयति -अशनं १ पानं २ खादिमं ३ स्वादिमं चेति ४। तत्राश्यते इति अशनम् , "अश भोजने"[ ] इत्यस्य ल्युडन्तस्य भवति । तथा पीयत इति पानम् , पाधातोः । तथा खाद्यत इति खादिमं "खाह भक्षणे" [ ] इत्यस्य वक्तव्यादिमत्प्रत्ययान्तस्य । एवं स्वाद्यत इति स्वादिमं , "स्वद आस्वादने" [ ] इत्यस्य च रूपम् । अथवा खाद्यं स्वाद्यं चेति । अशनाद्याहारविभागश्चैवं श्राद्धविधिवृत्तौ - ___ "अशनं शाल्यादि मुद्गादि सक्त्वादि पेयादि मोदकादि क्षीरादि सूरणादि मण्डादि च । यदाह"असणं ओअणसत्तुगमुग्गजगाराइ खज्जगविही अ। खीराई सूरणाई, मंडगपभिई अविण्णेयं" ॥१॥[पंचा.५/२७, प्र.सा./२०७]
पानं सौवीर-यवादिधावनं सुरादि सर्वश्चाप्कायः कर्कटजलादिकं च । यदाह - "पाणं सोवीरजवोदगाई चित्तं सुराइअं चेव ।। आउक्काओ सव्वो, कक्कडगजलाइअंच तहा" ॥२॥[पंचा.५/२८, प्र.सा./२०८]
खाद्यं भृष्टधान्य-गुडपर्पटिका-खजूर-नालिकेर-द्राक्षा-कर्कट्याम्र-पनसादि । यदाह"भत्तोसं दंताई, खज्जूरग-नालिकेर-दक्खाई।। कक्कडि-अंबग-फणसाइ बहुविहं खाइमं नेअं" ॥३॥[पंचा.५/२९, प्र.सा./२०९]
स्वाद्यं दन्तकाष्ठ-ताम्बूल-तुलसिका-पिण्डाजंक-मधुपिप्पल्यादि । यदाह - "दंतवणं तंबोलं, चित्तं तुलसी कुहेडगाईयं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइ" ॥४॥[पंचा.५/३०, प्र.सा./२१०]
१. स्वर्द-P.L. || २. मुद्गादि-मु० C. नास्ति । L.P. योगशास्त्रवृत्तौ श्राद्धविधिवृत्तावपि अस्ति ॥ ३. मण्डकादि-यो० टी० ॥ ४. “सत्थुग” इति प्रवचनसारोद्धारे ॥ ५. भृष्टधान्यं गलु० यो० टी० ॥ ६. पिण्डाक' इति प्रवचनसारोद्धारे, पिण्डाजंक' इति तत्रैव पाठान्तरम् ।।
D:\new/d-2.pm5\3rd proof