________________
[ ३२१
गुरुवन्दनस्वरूपम् - श्लो० ६२ ॥ ]
सावद्यवाग्रूपं भाषितं यत्र तत्तथा, तस्य, दुर्भाषितोद्भवस्येत्यर्थः, अनेन वाचिकं सूचयति । दुष्टं प्रतिषिद्धं धावनवल्गनादि कायक्रियारूपं चेष्टितं यत्र तत्तथा, तस्य, दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह । अस्यातिचारस्य किम् ? इत्याह – 'इच्छाकारेण संदिसह ' इति, आत्मीयेच्छया मम प्रतिक्रमणाज्ञां प्रयच्छत । इत्युक्त्वा तूष्णीको गुरुमुखं प्रेक्षमाण आस्ते ।
ततो गुरुराह –‘पडिक्कमह’ प्रतिक्रामत । शिष्यः प्राह – 'इच्छं' इच्छाम्येतद्भगवद्वचः, 'तस्स' तस्य दैवसिकातिचारस्य, 'मिच्छामि दुक्कडं' आत्मीयदुष्कृतं मिथ्येति, जुगुप्से इत्यर्थः । तथा द्वितीयच्छ (व) न्दनकेऽवग्रहान्तः स्थित एव विनेयोऽ ऽर्द्धावनतकायः स्वापराधक्षामणां चिकीर्षुर्गुरुं प्रतीदमाह – "इच्छाकारेण संदिसह" इति इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना, संदिशत आज्ञां प्रयच्छत यूयम् । आज्ञादानस्यैव विषयमुपदर्शयन्निदमाह -
"अब्भट्ठिओऽम्हि अब्भितरदेवसिअं खामेमि" अभ्युत्थितोऽस्मि - प्रारब्धोऽस्मि अहम्, अनेनान्याभिलाषमात्रस्य व्यपोहेन क्षमणक्रियायाः प्रारम्भमाह – 'अब्भितरदेवसियं' इति दिवसाभ्यन्तरसम्भवमतिचारमिति गम्यते, क्षमयामि – मर्षयामि इत्येका वाचना ।
अन्ये त्वेवं पठन्ति “इच्छामि खमासमणो ! अभुट्ठिओ म्हि अब्भितरदेवसिअं खामेउं" इति इच्छामि – अभिलषामि क्षमयितुमितियोगः । हे क्षमाश्रमण ! न केवलमिच्छामि, किन्तु अब्भुट्टिओऽम्हीत्यादि पूर्ववदेव ।
एवं स्वाभिप्रायं प्रकाश्य तूष्णीमास्ते यावद् गुरुराह – “खामेह " इति क्षमयस्वेत्यर्थः । ततः सद्गुरुवचनं बहुमन्यमानः प्राह -" इच्छं खामेमि" इति, इच्छं - इच्छामि भगवदाज्ञाम्, खामेमि - क्षमयामि च स्वापराधम् अनेन क्षमणक्रियायाः प्रारम्भमाह । ततो विधिवत्पञ्चभिरङ्गैः स्पृष्टधरणीतलो मुखवस्त्रिकया स्थगितवदनदेश इदमाह -
"जं किंचि अपत्तिअं परपत्तिअं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं "
व्याख्या –‘जं किंचि' यत्किञ्चित् सामान्यतो निरवशेषं वा, 'अपत्तिअं' आर्षत्वाद१. स तथा - यो० टी० प० ६८४ ॥ २. स तथा यो० टी० प० ६८४ ॥ ३ तद्भवद्वचः - मु० C. । `तद्भगवद्वच:-L.P. यो० टी० ॥ ४. द्वितीयछन्दकाSव L.P.C. ॥ ५. ओहं - मु० | L.P. C. यो० टी० प० ६८५ °ओ म्हि - इति ॥ ६. अनेनाभि° यो० टी० ॥ ७. म्हि - यो० टी० ॥ ८. ऽमीत्यादि - मु० L.P. C. । यो० टी० प० ६८५ ऽम्हीत्यादि ॥
D:\new/d-2.pm5\3rd proof