________________
३२२]
[धर्मसंग्रहः-द्वितीयोऽधिकार: प्रीतिकम् अप्रीतिमात्रम् , 'परपत्तिअं' प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकमुपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम् , युष्मद्विषये मम जातम् , युष्माभिर्वा मम जनितमिति वाक्यशेषः । तस्स मिच्छा मीत्युत्तरेण सम्बन्धः । तथा 'भत्ते' भक्ते भोजनविषये, 'पाणे' पानविषये 'विणए' विनये अभ्युत्थानादिरूपे, 'वेयावच्चे' वैयावृत्त्ये वैयापृत्ये वा
औषधपथ्यादिना अवष्टम्भरूपे आलावे' आलापे सकृज्जल्पनरूपे 'संलावे' मिथ:-कथारूपे, 'उच्चासणे' गुरोरासनादुच्चैरासने, 'समासणे' गुर्वासनेन तुल्ये आसने, 'अंतरभासाए' अन्तर्भाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायाम् , 'उवरिभासाए' उपरिभाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम् , एष भक्तादिषु 'जं किंचि' यत् किञ्चित् समस्तं सामान्यतो वा 'मज्झ' मम 'विणयपरिहीणं' विनयपरिहीनं शिक्षावियुक्तं सञ्जातमितिशेषः । विनयपरिहीनस्यैव द्वैविध्यमाह –'सुहुमं वा बायरं वा' सूक्ष्ममल्पप्रायश्चित्तविशोध्यम् , बादरं बृहत्प्रायश्चित्तविशोध्यम् , वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भावनार्थों, 'तुब्भे जाणह' इति यूयं जानीथ सकलभाववेदकत्वात् , 'अहं न याणामि' अहं पुनर्न जानामि मूढत्वात् । तथा यूयं न जानीथ प्रच्छन्नकृतत्वादिना, अहं जानामि स्वयङ्कृतत्वात् , तथा यूयं न जानीथ परेण कृतत्वादिना, अहं न जानामि विस्मरणादिना, तथा यूयमपि जानीथ अहमपि जानामि द्वयोः प्रत्यक्षत्वात् , एतदपि द्रष्टव्यम् । 'तस्स' तस्य षष्ठीसप्तम्योरभेदात् तस्मिन्नप्रीतिकविषये विनयपरीहीणविषये च 'मिच्छा मि दुक्कडं' मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः, अथवा तस्येति विभक्तिपरिणामात् तदप्रीतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्त्तते, मे मम, तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति । क्षमयित्वा च पुनर्वन्दकं ददाति । वन्दनपूर्वके चालोचनक्षमणे इतिकृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा च प्रतिक्रमणे तयोरवसर इति द्वादशावर्त्तवन्दनविधिः । अथ च गुरोर्व्याक्षिप्तत्वादिना बृहद्वन्दनकायोगे छोभवन्दनेनापि गुरून् वन्दते । वन्दनकस्य च फलं कर्मनिर्जरा । यदाहुः
"वंदएणं भंते ! जीवे किं अज्जिणइ ? गोअमा ! अट्ठकम्मपगडीओ निविड
१. L.P. । वैयावृत्त्यै औष० मु० । वैयापृत्ये वैयावृत्त्ये वा औष० यो० टी० प० ६८६ ॥ २. सकृज्जल्परूपे संलावे संलापे-यो० टी० प० ६८६ ॥ ३. अन्तरभाषायां-यो० टी० प० ६८६ ॥ ४. 'वचमां बोलवू' इति गूर्जरगिरायाम् ॥ ५. 'जे . L. ॥ ६. णं-यो० टीका ॥ ७. हीणस्यै यो० टीका ।। ८. वंदणएणं-यो० टी० प० ६८७ ।।
D:\new/d-2.pm5\3rd proof