SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३२०] [धर्मसंग्रहः-द्वितीयोऽधिकारः मनसाऽपि न एष्टव्यः, आस्तां तावत् कर्त्तव्यः । यत एवेत्थम्भूतः अत एव 'असावगपाउग्गो' अश्रावकप्रायोग्यः 'अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारीं शृणोति' इति श्रावकः, तस्य प्रायोग्य -उचितः श्रावकप्रायोग्य: न तथा श्रावकानुचित इत्यर्थः । ___ अयं चातिचार: क्व विषये ? इत्याह –'णाणे दंसणे चरित्ताचरित्ते' इति ज्ञानविषये दर्शनविषये स्थूलसावद्ययोगनिवृत्तिभावाच्चारित्रं च सूक्ष्मसावद्ययोगनिवृत्त्यभावादचारित्रं च चारित्राचारित्रं तस्मिन् देशविरतिविषय इत्यर्थः । अधुना भेदेन व्याचष्टे 'सुए' श्रुतविषये श्रुतग्रहणं मत्यादिज्ञानोपलक्षणम् , तत्र विपरीतप्ररूपणा अकालस्वाध्यायश्चातिचारः । 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिक-देशविरतिसामायिकयोर्ग्रहणम् । तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, देशविरतिसामायिकातिचारं तु भेदेनाह –'तिण्हं गुत्तीणं' तिसृणां गुप्तीनाम् , 'यत्खण्डितमित्यादिना सर्वत्र योगः । मनोवाक्कायगोपनात्मिकास्तिस्रो गुप्तयस्तासां चाश्रद्धानविपरीत*प्ररूपणाभ्यां खण्डना विराधना च । 'चतुर्णा' क्रोधमानमायालोभलक्षणानां 'कषायाणां' प्रतिषिद्धानां करणेनाश्रद्धानविपरीत प्ररूपणाभ्यां च 'पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां' 'चतुर्णां शिक्षाव्रतानां' उक्तस्वरूपाणाम् , अनुव्रतादिमीलनेन 'द्वादशविधस्य श्रावकधर्मस्य' यत्खण्डितमित्यादिना सर्वत्र योगः, देशतो भग्नम् , यद्विराधितं सुतरां भग्नम् , न पुनरेकान्ततोऽभावमापादितम् , 'तस्स मिच्छा मि दुक्कडं तस्य -दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा गुप्तीनां कषायाणां द्वादशविधश्रावकधर्मस्य च यत्खण्डनं विराधनं चातिचाररूपं तस्य, मिथ्येति प्रतिक्रामामि, दुष्कृतमेतदकर्त्तव्यमिदं ममेत्यर्थः । अत्रान्तरे विनेयः पुनरप्यर्द्धावनतकायः प्रवर्द्धमानसंवेगो मायामदविप्रमुक्तः, आत्मनः सर्वातिचारविशुद्धयर्थं सूत्रमिदं पठति –“सव्वस्स वि देवसिय दुच्चितिय दुब्भासिय दुच्चिट्ठिय इच्छाकारेण संदिसह" सर्वाण्यपि लुप्तषष्ठीकानि पदानि । ततोऽयमर्थः -सर्वस्यापि दैवसिकस्य अणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्यातिचारस्येति गम्यते, पुनः कीदृशस्य ? 'दुश्चिन्तितस्य' दुष्टमातरौद्रध्यानतया चिन्तितं यत्र स तथा, तस्य, दुश्चिन्तितोद्भवस्येत्यर्थः, अनेन मानसमतीचारमाह । दुष्टं १. भवतीत्याह-यो० टी० प० ६८३ ।। २. गुप्तयः व्याख्याताः, तासां चाश्र” यो० टी० ६८४ ॥ ३. * * चिह्नद्वयमध्यवर्तीपाठः C. प्रतौ पार्श्वभागे, मु० मध्ये ईदृशे कोष्ठके [ ] ॥ ४. च-मु० नास्ति । L.P. यो० टी० प०६८४ च-अस्ति । D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy