________________
गुरुवन्दने १९८स्थानानि-श्लो० ६२॥]
[३१५ "तज्जाएं पडिहणइ २३, बेइ बहुं २४ तह कहतरे वयइ । एवमिमंति अ २५ न सरसि २६, नो सुमणे २७ भिंदई परिसं २८ ॥४॥[] छिंदइ कहं २९ तहाणुट्ठिआइ परिसाइ कहइ सविसेसं ३० । गुरुपुरओ वि निसीअइ, ठाइ समुच्चासणे सेहो ३१ ॥५॥[] संघट्टइ पाएणं, सिज्जासंथारयं गुरुस्स तहा ३२ । तत्थेव ठाइ निसीअइ, सुअइ व सेहो त्ति ३३ तेत्तीसं" ॥६॥[]
आशातना हि यत्यनुसारेण यथासम्भवं श्रावकस्यापि वाच्याः । साम्प्रतमेतास्वेव किञ्चिद्विशेषेणाऽऽह –'जं किंचि मिच्छाए' त्ति यत्किञ्चन कदालम्बनमाश्रित्य, मिथ्ययामिथ्यायुक्तेन कृतयेत्यर्थः, मिथ्याभावोऽत्रास्तीति अभ्रादित्वादकारे मिथ्या, एवं क्रोधयेत्यादावपि । मनसा दुष्कृता मनोदुष्कृता, तया, प्रद्वेषनिमित्तयेत्यर्थः । वाग्दुष्कृतया - असभ्यपरुषादिवचननिमित्तया। कायदुष्कृतया आसन्नगमनस्थानादिनिमित्तया। क्रोधया - क्रोधयुक्तया । मानया -मानयुक्तया । मायया-मायायुक्तया । लोभया -लोभयुक्तया । अयं भावः -क्रोधाद्यनुगतेन या काचिद् विनयभ्रंशादिलक्षणा आशातना कृता तयेति । एवं दैवसिक्याशातनोक्ता। . अधुना पक्ष-चातुर्मास-संवत्सरकालकृता इहभवान्यभवकृताऽतीतानागतकालकृता वा या आशातना तस्याः संग्रहार्थमाह -'सव्वकालियाए' सर्वकालेषु भवा सर्वकालिकी, तया। अनागतकाले कथमाशातनासम्भव इति चेत् , उच्यते – 'श्वोऽस्य गुरोरिदमिदं वाऽनिष्टं कर्ताऽस्मि'इति चिन्तया । इत्थं भवान्तरेऽपि तद्वधादिनिदानकरणेन सम्भवत्येव । सर्व एव मिथ्योपचारा मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमिथ्योपचारा, तया, सर्वे धर्माः - अष्टौ प्रवचनमातरः सामान्येन करणीयव्यापारा वा, तेषामातिक्रमणं-लङ्घनं विराधनं यस्यां सा सर्वधर्मातिक्रमणा, एवम्भूतया आशातनया यो मयाऽतिचारः -अपराधः कृतो - विहितस्तस्य अतिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिकंप्रतिक्रमामि-अपन:करणेन निवर्ते। तथा दुष्टकर्मकारिणं निन्दाम्यात्मानम् , भवोद्विग्नेन प्रशान्तेन चेतसा । तथा गर्हे -आत्मानं दुष्टकर्मकारिणं युष्मत्साक्षिकम् । व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन ।
१. एणं-यो० टी० ॥ २. तुला-योगशास्त्रटीका प०६६८-६४६ ॥ ३. 'अभ्रादिभ्यः' सि० हे० ७-२-४६ ॥ ४. पक्षचतु यो० टी० प० ६६९ ।। ५. भगवता यो० टी० प० ६६९ ।। ६. च-यो० टी० प० ६६९ ।। ७. सार्व' इति आवश्यकहारिभद्रीयवृत्तौ प० ५४८ यो० टी० ६६९ च ॥ ८. प्रतिक्रामामि-यो० टी० प० ६६९ ॥
D:\new/d-2.pm5\3rd proof