________________
३१४]
[ धर्मसंग्रहः - द्वितीयोऽधिकारः स्थितेन शयितेन वा शिष्येण प्रतिवचनदानम् १९ । आहूतेनासनं शयनं वा त्यक्त्वा सन्निहितीभूय ‘मस्तकेन वन्दे' इति वदता गुरुवचनं श्रोतव्यम्, तदकुर्वत आशातना २०। गुरुहूतस्य शिष्यस्य 'किम्' इति वचनम्, भणितव्यं च 'मस्तकेन वन्दे' इति २१ । गुरुं प्रति शिष्यस्य त्वङ्कारः २२ । गुरुणा ग्लानादिवैयावृत्त्यादिहेतोरिदं कुर्वित्यादिष्टस्त्वमेव किं न कुरुषे ? इति, 'त्वमलस' इत्युक्ते 'त्वमप्यलस' इति च शिष्यस्य तज्जातवचनम् २३। गुरोः पुरतो बहोः कर्कशस्योच्चैः स्वरस्य च शिष्येण वदनम् २४ । गुरौ कथां कथयति ‘एवमित्येतद्’ इत्यन्तराले शिष्यस्य वचनम् २५। गुरौ धर्मकथां कथयति 'न स्मरसि त्वमेतमर्थं, नायमर्थः सम्भवति' इति शिष्यस्य वचनम् २६ । गुरौ धर्मं कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य 'साधूक्तं भवद्भिरित्यप्रशंसतः शिष्यस्योपहतमनस्त्वम् २७। गुरौ धर्मं कथयति ‘इयं भिक्षावेला, सूत्रपौरुषीवेला, भोजनवेला,' इत्यादिना शिष्येण पर्षद्भेदनम् २८ गुरौ धर्मकथां कथयति 'अहं कथयिष्यामि' इति शिष्येण कथाछेदनम् २९। तथा आचार्येण धर्मकथां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेषं धर्मकथनम् ३०। गुरोः पुरतः उच्चासने समासने वा शिष्यस्योपवेशनम् ३१। गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वा अक्षामणम् । यदाह -
"संघट्टइत्ता काएणं, तहा उवहिणामवि ।
खमेह अवराहं मे, वइज्ज न पुण त्ति अ" ॥१॥ [ दश. सू. ९-२-१८ ] ॥३२॥ गुरोः शय्यासंस्तारकादौ स्थानं निषीदनं शयनं चेति ३३| एतदर्थसंवादिन्यो गाथाः -
"पुरओ १ पक्खा २ Ssसने ३ गमणं ३ ठाणं ३ निसीअणं ३ ति नव । सेहे पुव्वं आयमई १० आलवइ ११ य तह य आलोए १२ ॥१॥ [ ] असणाइअमालोएइ १३, पडिदंसइ १४ देइ १५ उवनिमंतेइ १६ । सेहस्स तहाहाराइलुद्धो निदाइ गुरुपुरुओ १७ ॥२॥[]
ओ गुरुस्स वयओ, सिणी सुणिरो वि १८ सेसकाले वि १९ । तत्थगओ वा पडिसुणइ २० बेइ किं ति व २१ तुमं ति गुरू २२ ॥३॥ [ ]
१. तुला-प्रवचनसारोद्धार गाथा १२९ - १४९, विचारसार प्र० गा० ७३८ तः ७४३ ।। २. ईमु० । C. P. यो० टी० प० ६८० च इ ॥ ३. 'लोअइ यो० टी० प० ६८० ॥ ४. देई - यो० टी० प० ६८० ॥ ५. गुरु-यो० टी० ॥
D:\new/d-2.pm5\3rd proof