________________
गुरुवन्दने १९८स्थानानि-श्लो० ६२॥]
[३१३ आत्मानं शोधयिष्यामीति बुद्ध्या अवग्रहान्निःसृत्य पठति । अवश्यं कर्त्तव्येषु चरणकरणेषु भवा क्रिया तया आसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि निवर्ते, इत्थं सामान्येनाभिधाय विशेषेणाभिधत्ते –क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना तया । किंविशिष्टया ?–'त्रयस्त्रिंशदन्यतरया' 'त्रयस्त्रिंशत्सङ्ख्यानामाशातनानामन्यतरया कयाचिद् , उपलक्षणत्वाद् द्वाभ्यां तिसृभिरपि । यतो दिवसमध्ये सर्वा अपि सम्भवन्ति ।
ताश्चेमाः –गुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्गहेतुत्वादाशातना, मार्गदर्शनादिकारणे तु न दोषः १। गुरोः पार्वाभ्यामपि गमनम् २, पृष्ठतोऽप्यासन्नगमनम् , निःश्वास-क्षुत-श्लेष्मपातादिदोषप्रसङ्गात् । ततश्च यावता भूभागेन गच्छता आशातना न भवति तावता गन्तव्यम् ३। एवं पुरतः पार्श्वतः पृष्ठतश्च स्थानम् ६, तथा पुरतः पार्श्वतः पृष्ठतो वा निषीदनम् ७-८-९ । आचार्येण सहोच्चारभूमिं गतस्य आचार्यात् प्रथममेवाचमनम् १०। गुरोरालापनीयस्य कस्यचिच्छिष्येण प्रथममालापनं ११। शिष्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात् प्रथममेव गमनागमनालोचनम् १२। भिक्षामानीय शिष्येण गुरोः पूर्वं शैक्षस्य कस्यचित् पुरत: आलोच्य पश्चाद् गुरोरालोचनम् १३। भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् १४। गुरुमनापृच्छ्य शैक्षाणां यथारुचि प्रभूतभैक्षदानम् १५। भिक्षामानीय शैक्षं कञ्चन निमन्त्र्य पश्चाद् गुरोरुपनिमन्त्रणम् १६। शिष्येण भिक्षामानीय आचार्याय यत्किञ्चिद्दत्वा स्वयं स्निग्ध-मधुर-मनोज्ञाहार-शाकादीनां वर्ण-गन्ध-स्पर्शरसवतां च द्रव्याणां स्वयमुपभोगः १७। रात्रौ आर्याः ! क: स्वपिति जागत्ति वा? इति गुरोः पृच्छतोऽपि जाग्रतापि शिष्येणाप्रतिश्रवणम् १८। शेषकालेऽपि गुरौ व्याहरति यत्र तत्र
१. अवश्य' मु० । अवश्यं-P. यो० टी० ६६७ ।। २. क्रिया (आवश्यकी) तया हेतुभूतया आसेवनाद्वारेण यद मु । क्रिया तया आसेवनाद्वारेण हेतुभूतया यद C.P. यो० टी० ॥ ३. यत् साध्व' इति यो० टी० पाठान्तरम् ॥ "अयं पाठः समीचीनतरो यद्यपि भाति तथापि आवश्यकहारिभद्रयां [प० ५४७] धर्मसङ्ग्रहवृत्तौ अपि च इति पाठस्य दर्शनात् स एवाहतोऽस्माभिरिति ध्येयम्" । इति योगशास्त्रे टिप्पणम् प० ६६८ ॥ ४. तुला-योगशास्त्रटीका प० ७६७-६८१ । प्रवचनसारोद्धारटीका प० ८५ । दशाश्रुतस्कन्ध प० । आवश्यकहारिभद्रीयवृत्तिः प० ७२५-७ ॥ ५. क्षुत् इति प्रवचनसारोद्धारवृत्तौ प०८६ ।। ६. 'त-यो० टी० प० ६७७ ।। ७. गुरोरालप यो० टी० [प०६७७] प्र० सा० टी० [प्र०८६] ।। ८. प्रथममालपनं-यो० टी० प०६७७ ॥ ९. भिक्षामानीय गुरुमना यो० टी० प०६७७ ॥ १०. स्वयं- यो० टी० नास्ति प० ६७८ ॥ ११. वर्णगन्धरसस्पर्शवतां- यो० टी० प० ६७८ ॥ १२. शेषकालेऽपि १९-C. मु० ॥
D:\new/d-2.pm5\3rd proof