________________
३१२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः अथ तपोनियमविषयां वार्ता पृच्छन्नाह –'जत्ता भे' 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरणललाटयोरन्तराले 'त्ता' इति स्वरितेन स्वरेणोच्चार्य, उदात्तस्वरेण 'भे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति । यात्रा -संयम-तपोनियमादिलक्षणा। क्षायिकक्षायोपशमिकौपशमिकभावलक्षणा भवतां 'उत्सर्पति'इति गम्यते। इति यात्रापृच्छारूपं तुर्यस्थानम् । अत्रान्तरे गुरोः प्रतिवचनं 'तुब्भं पि वट्टए' मम तावदुत्सर्पति भवतोऽप्युत्सर्पति ? ।
अधुना नियन्त्रणीयपदार्थविषयां वार्ता पृच्छन् पुनरप्याह विनेयः -'जवणिज्जं च भे,' 'ज' इत्यनुदात्तस्वरेण रजोहरणं स्पृष्ट्वा, 'व' इति स्वरितस्वरेण रजोहरणललाटयोरन्तराले उच्चार्य, "णि' शब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्द्धसमाप्तत्वात् प्रश्नस्य । ततो 'ज्जं' इत्यनुदात्तस्वरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् , पुनरेव रजोहरण-ललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य, 'भे' इत्युदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाणस्तथैवाऽऽस्ते । “जवणिज्जं च' यापनीयम् -इन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं च 'भे' भवतां शरीरमिति गम्यम् । एवं परया भक्त्या पृच्छता विनेयेन विनयः कृतो भवतीति यापनाप्रच्छनं पञ्चमं स्थानम् ।
अत्रान्तरे गुरुराह –'एवं' आमं, 'यापनीयं च मे' इत्यर्थः । इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह -'खामेमि खमासमणो ! देवसिअं वइक्कम' क्षमयामि क्षमाश्रमण ! दिवसे भवो दैवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधमित्यपराधक्षमणारूपं षष्ठं स्थानम् ।
अत्रान्तरे च गुरुर्वदति 'अहमवि खामेमि' अहमपि क्षमयामि दैवसिकं व्यतिक्रमं - प्रमादोद्भवमविधिशिक्षणादिकम् ।
ततो विनेयः प्रणमन् क्षमयित्वा 'आवस्सियाए इत्यादि जो मे अइयारो कओ' इत्यन्तं स्वकीयातिचारनिवेदनपरमालोचनार्हप्रायश्चित्तसूचकं सूत्रं 'तस्स खमासमणो ! पडिक्कमामि' इत्यादिकं च प्रतिक्रमणार्हप्रायश्चित्ताभिधायकं च पुनरकरणेनाभ्युत्थित
१. °णा वा भे भवतां-यो० टी० इ० ६६७ ॥ २. इ-यो० टी० प० ६६७ ।। ३. परया मु० नास्ति । L.P.C. यो० टी० [प० ६६७] परया अस्ति ।। ४. आम-मु० C. | आमं P. आवश्यकहारिभद्रयां [प० ५४७] यो० टी० प० ६६७ । अभिधानचिन्तामणौ तु "स्यादां ओं परमे मते" । ६।१७६ इति ॥ ५. °धक्षमणां-L.P.C. सं० । °धक्षामणां-C. मूल यो० टी० प० ६६७ ।। ६. आवसि यो० टी० प० ६६७॥
D:\new/d-2.pm5\3rd proof