SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ गुरुवन्दने १९८स्थानानि-श्लो० ६२॥] [३११ स्थित एवेदमाह –'अनुजानीत' -अनुमन्यध्वं, 'मे' इत्यात्मनिर्देशे, किम् ? मितश्चासाववग्रहश्च मितावग्रहः, इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहस्तस्मिन्नाचार्यानुज्ञां विना प्रवेष्टुं न कल्पते । यदाह - "आयप्पमाणमित्तो, चउद्दिसि होइ उग्गहो गुरुणो। अणणुण्णायस्स सया, न कप्पए तत्थ पविसेउं" ॥१॥ [प्र.सा./१२५, वि.सा./७३४, गुरु./१७] इति अनुज्ञापनं द्वितीयं स्थानम् । ततो गुरुर्भणति 'अनुजानामि' । ततः शिष्यो भुवं प्रमृज्य नैषेधिकी कुर्वन् गुर्ववग्रहं प्रविशति । 'निसीहि' इति निषिद्धसर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः । ततः सन्दंशप्रमार्जनपूर्वकमुपविशति । गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिकया वामकर्णादारभ्य वामहस्तेन दक्षिणकर्णं यावत् ललाटमविच्छिन्नं च वामजानुं त्रिः प्रमृज्य मुखवस्त्रिका वामजानूपरि स्थापयति । ततोऽकारोच्चारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति । ततः काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यंकारोच्चारणसमकालं ललाटं स्पृशति । पुनश्च काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृशति । ततः 'संफासं' इति वदन् शिरसा पाणिभ्यां च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलि: 'खमणिज्जो भे किलामो' इत्यारभ्य 'दिवसो वइक्कंतो' इति यावत् गुरुमुखे निविष्टदृष्टिः पठति । अधस्तात् कायोऽध:कायः – पादलक्षणस्तं प्रति, कायेन – निजदेहेन हस्तललाटलक्षणेन, संस्पर्शः -आमर्शस्तं 'करोमि'इति गम्यते । एतदपि 'ममानुजानीध्वम् इत्यनेन योगः । आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः।। ततो वक्ति 'खमणिज्जो' क्षमणीयः सोढव्यः, 'भे' भवद्भिः 'किलामो' क्लमः संस्पर्शे सति देहग्लानिरूपः । तथा 'अप्पकिलंताणं' अल्पं -स्तोकं क्लान्तं -क्लमो येषां ते अल्पक्लान्तास्तेषामल्पवेदनानामित्यर्थः । 'बहुसुभेण' बहु च तच्छुभं च बहुशुभम् , तेन बहुसुखेनेत्यर्थः । 'भे' भवतां 'दिवसो वइक्कंतो' ? दिवसो व्यतिक्रान्तः ? अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्टव्यमिति । एवं योजितकरसम्पुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरुः –'तह त्ति' तथेति, प्रतिश्रवणेऽत्र तथाकारः, यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्ता पृष्टा । १. होइऽवग्गहो-यो० टी० प०६६५ ॥ २. वाम-यो० टी० प०६६६ ॥ ३. ण-यो० टी० प० ६६६ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy