SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३१०] [ धर्मसंग्रहः - द्वितीयोऽधिकारः 'इच्छामि' अभिलषामि, अनेन बलाभियोगः परिहृतः, ** 'क्षमाश्रमण' क्षमूष् सहने' [ पाणिनीयधातुपाठे ४४२ ] इत्यस्यार्षत्वादङि क्षमा, सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति वा नन्द्यादित्वात् कर्त्तर्यने श्रमणः, क्षमाप्रधानः श्रमणः क्षमाश्रमणस्तस्य सम्बोधने प्राकृते 'खमासमणो' "डो दीर्घो वा " [ सिद्धहेम ८३-३८ ] इति आमन्त्र्ये सेर्डोकारः । क्षमाग्रहणेन मार्दवार्जवादयो गुणाः सूचिताः । ततश्च ‘क्षमादिगुणोपलक्षितो यतिः प्रधानः' अनेन वन्दनार्हत्वं तस्यैव सूचितम् । किं कर्त्तुम् ? वन्दितुं – नमस्कर्तुम्, भवन्तमिति गम्यते । कया ? यापनीयया नैषेधिक्या, अत्र नैषेधिक्येतिविशेष्यम्, यापनीययेति विशेषणम्, "षिधु गत्याम्" [ हैम धा० पा० १।३२० ] इत्यस्य निपूर्वस्य घञि निषेधः प्राणातिपातादिनिवृत्तिः, स प्रयोजनमस्या नैषेधिकी - तनुः, तया प्राणातिपातादिनिवृत्तया तन्वा इत्यर्थः । कीदृश्या ? यापनीयया, "यांक् प्रापणे" [ धा० पा० २-४-१०६२ ] अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया, प्रवचनीयादित्वात् कर्त्तर्यनीयः, तया, शक्तिसमन्वितयेत्यर्थः । अयं समुदायार्थः – हे श्रमणगुणयुक्त ! अहं शक्तिसमन्वितशरीरः प्रतिषिद्धपापक्रियश्च त्वां वन्दितुमिच्छामि । अत्र विश्रामः । इदं चेच्छानिवेदनं प्रथमं स्थानम् । अत्र चान्तरे गुरुर्यदि व्याक्षेपबाधादियुक्तस्तदा भणति – 'प्रतीक्षस्व' इति । तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति, अन्यथा तु नेति चूर्णिकारमतं । वृत्तिकारस्य तु मतं त्रिविधेनेति भणति मनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः । तत: शिष्यः संक्षेपवन्दनं करोति । व्याक्षेपादिरहितश्चेद् गुरुस्तदा वन्दनमनुज्ञातुकामश्छन्नेति वदति, छन्देन –अभिप्रायेण, ममाप्येतदभिप्रेतमित्यर्थः । ततो विनेयोऽवग्रहाद्बहिः १. परिहतः-L.P. ॥ २. इत्यस्यार्थत्वा (स्यार्षत्त्वा) दङि - मु० । 'क्षमौषि सहने ।... षित्त्वादङि क्षमा' । इति धातुपारायणे [ १ / ७८८, पृ० १०० ] ॥ ३. च-यो० टी० ६६३ । ४. प्राणातिपातनिवृ० L.P.C. ।। ५. कहिं कहिं पुण एत्थ उवरमो ? भण्णति - 'इच्छामि खमासमणो ! वंदितुं जावणिज्जाए निसीहियाए' एस एक्को फुडवियडसुद्धवंजणो उच्चारेतव्वो सव्वविधीए । तत्थ जदि बाधा अत्थि काइ तो भणति -अच्छ ताव जदि तं अक्खाइतव्वं तो अक्खाति, अह रहस्सं तो रहकस्स चेव कज्जति । जदि पडिच्छितुकामो ताहे भणति 'छंदेणं' । छंदेणं नाम अभिप्पाएणं, ममाभिप्रेतमित्यर्थः' । इति आवश्यकचूर्णो भा० २प० ४ ॥ ६. “ अत्रान्तरे गुरुर्व्याक्षेपादियुक्तः ‘त्रिविधेन' इति भणति, ततः शिष्यः संक्षेपवन्दनं करोति । व्याक्षेपादिविकलस्तु 'छन्दसा' इति भणति'' इति आवश्यकसूत्रस्य हारिभद्र्यां वृत्तौ प० ५४७ ॥ ७. P. सं० यो० टी० प० ६६४ ॥ संक्षेप: व° मूल ॥ संक्षेपतः-मु० ॥। ८. दृष्टव्या आवश्यकहारिभद्रीयटीका प० ५४७ ॥ D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy