________________
गुरुवन्दने १९८स्थानानि-श्लो० ६२॥]
[३०९ इति कृतं प्रसङ्गेन २। तथा कायोत्सर्गे -विकृत्यनुज्ञारूपे, यो हि विकृतिपरिभोगाय आचाम्लविसर्जनार्थं क्रियते ३। अपराधे गुरुविनयलङ्घनरूपे यतस्तं वन्दित्वा क्षमयति, पाक्षिकवन्दनान्यपराधे पतन्ति ४। प्राघूर्णके -ज्येष्ठे समागते सति वन्दनकं भवति । अत्र चायं विधिः
"संभोइ अण्णसंभोइआ य, दुविहा हवंति पाहुणया। संभोइए आयरिअं, आपुच्छित्ता उ वंदंति ॥१॥[ ] इअरे पुण आयरियं, वंदित्ता संदिसाविअं तह य ।
पच्छा वंदंति जइ, गयमोहा अहव वंदावे" ॥२॥[ ] ५/ तथा आलोचनायां च ६। संवरणे भुक्तानन्तरं प्रत्याख्यानकरणे दिवसचरिमरूप इत्यर्थः । अथवा भक्तार्थिनः केनचित् कारणेन पुनरभक्तार्थप्रत्याख्याने ७। उत्तमार्थे चाराधनाकाले ८ इति । दोषाः ६- "माणो अविणयखिसा, नीयागोयं अबोहिभववुड्डी ।
अनमंते छद्दोसा, एवं अडनउयसयमिहयं" ॥१॥[] अथ सूत्रम् – “इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए, अणुजाणह मे मिउग्गहं, णिसीहि । अहोकायं कायसंफासं खमणिज्जो भे किलामो, अण्पकिलंताणं बहुसुभेण भे दिवसो वइक्वंतो ? जत्ता भे? जवणिज्जं च भे? खामेमि खमासमणो देवसिअं वइक्कम, आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयराए जं किंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्मा-इक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" ॥
अत्र हि शिष्यो गुरुवन्दनेन वन्दितुकामः पूर्वं लघुवन्दनपुरस्सरं सन्दंशको प्रमृज्योपविष्ट एव मुखवस्त्रिकां पञ्चविंशतिकृत्वः प्रत्युपेक्षते, तया च शरीरं पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाक्कायसंशुद्धो गुरोः सकाशादात्मप्रमाणात् क्षेत्राद्वहि:स्थितोऽधिज्यचापवदवनतकायः करद्वयगृहीतरजोहरणादिर्वन्दनायोद्यत एवमाह -
१. L.P.C. सं । गुरविनयबन्धन(योल्लङ्घन)रूपे-मु० ॥ २. तुला-योगशास्त्रटीका प० ६६२७॥ ३. निसीही-यो० टी० प०६६२ ॥ ४. ण-योन्टी० ॥ ५. ते यो० टी० ॥ ६. गुरुं -योन्टी० ॥
D:\new/d-2.pm5\3rd proof