________________
गुरुवन्दने १९८स्थानानि-श्लो० ६२॥]
[३०५ दोषाः ३२"अणाढिअंच थद्धं च, पविद्धं परिपिंडिअं। टोलगइ अंकुसं चेव, तहा कच्छभरिंगिअं ॥१॥[ आ.नि./१२२१, प्र.सा./१५०] मच्छुव्वत्तं मणसा वि, पउटुं तह य वेइयाबद्धं । भयसा चेव भयंतं, मित्ति-गारव-कारणा ॥२॥ [ आ.नि./१२२२, प्र.सा./१५१] तेणियं पडिणीयं चेव, रुटुं तज्जियमेव य । सढं च हीलियं चेव, तहा 'विपलिउंचियं ॥३॥[आ.नि./१२२३, प्र.सा./१५२] दिट्ठमदिटुं च तहा, सिंगं च करमोअणं । आलिद्धमणालिद्धं, ऊणं उत्तरचूलिअं ॥४॥[ आ.नि./१२२४, प्र.सा./१५३] मूअं च ढड्ढरं चेव, चुडलियं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजए ॥५॥[आ.नि./१२२५, प्र.सा./१५४]
आसां व्याख्या -अनादृतम् –सम्भ्रमरहितं वन्दनम् । निरादरवन्दनमित्यर्थः । [तद्दोषदुष्टमिति सर्वत्र योज्यम्] १।
स्तब्धं -मदाष्टकवशीकृतस्य वन्दनं, देहमनसोः स्तब्धत्वाच्चतुर्द्धा २। प्रविद्धं -वन्दनं ददत एव पलायनम् ३।
परिपिण्डितं -प्रभूतानां युगपद्वन्दनम् , यद्वा कुक्ष्योरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याव्यक्तसूत्रोच्चारणपुरस्सरं वन्दनम् ४।
टोलगतिं –तिड्डवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दनम् ५।
अङ्कशम् -उपकरणचोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्याङ्कशेन गजस्येवाचार्यस्योर्ध्वस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासने उपवेशनम् , न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य । यद्वा रजोहरणमङ्कुशवत् करद्वयेन गृहीत्वा वन्दनम् यदि वा अङ्कशाक्रान्तहस्तिन इव शिरोनमनोन्नमने कुर्वाणस्य वन्दनम् ६।
१. तुला-योगशास्त्रवृत्तिः प०६५६ ॥ २. थड्ढे-इति योगशास्त्रवृत्तौ प० ६५६ ॥ ३. पडणीयंइति योगशास्त्रवृत्तौ प० ६५६ ॥ ४. विप्प इति प्रवचनसारोद्धारे ॥ ५. आलिद्धमणालिटुं-इति आवश्यकनियुक्तौ । आलिट्ठमणालिटुं'-इति प्रवचनसारोद्धारे ॥ ६. चुडुलिं-आवश्यकनियुक्तौ ।। ७. परिपिण्डनं-मु० । C. योगशास्त्रवृत्तावपि परिपिण्डितं ॥ ८. तुला-योगशास्त्रवृत्तिः प० ६५८, प्रवचनसारोद्धारवृत्तिः प० ९७ । उपकरणे-इति प्रवचनसारोद्धारवृत्तौ योगशास्त्रवृत्तौ च । 'उवगरणे हत्थंमि व घेत्तुं निवेसेइ अंकुसं बिंति । इति प्रवचनसारोद्धारे गा० १५८ ॥
D:\new/d-2.pm5\3rd proof