________________
३०६]
[धर्मसंग्रहः-द्वितीयोऽधिकार: ___कच्छपरिङ्गितम् -उर्ध्वस्थितस्य 'तेत्तीसण्णयराए' इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा 'अहोकायं काय' इत्यादि सूत्रमुच्चारयतोऽग्रतोऽभिमुखं पश्चादमिभुखं च रिङ्गतश्चलतो वन्दनम् ७ ___ मत्स्योवृत्तम् -उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्त्तते उद्वेल्लते यत्र तत् । यद्वा एकं वन्दित्वा द्वितीयस्य साधोद्भुतं द्वितीयपाइँन रेचकावर्तेन मत्स्यवत् परावर्त्तमानस्य वन्दनम् ८।
मनसा प्रदुष्टम् –शिष्यस्तत्सम्बन्धी वा गुरुणा किञ्चित् परुषमभिहितो यदा भवति तदा मनसो दुषितत्वात् मनसा प्रदुष्टम् यद्वा वन्द्यो हीनः केनचिद् गुणेन, ततोऽहमेवंविधेनापि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनम् ९।।
वेदिकाबद्धं -जान्वोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं जानु करद्वयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्बद्धं युक्तं वन्दनम् १०।
बिभ्यत् –'सङ्घात् कुलाद् गच्छात् क्षेत्राद् वा निष्कासयिष्येऽहम्' इति भयाद् वन्दनम् , ११।
भजमानम् –'भजते मां सेवायां पतितः, अग्रे वा मम भजनं करिष्यति, अतोऽहमपि वन्दनसत्कं निहोरकं निवेशयामि' इतिबुद्ध्या वन्दनम् १२।
मैत्रीतो -मम मित्रमाचार्य इति, आचार्येणेदानी मैत्री वा भवत्विति वन्दनम् १३।
गौरवाद् -वन्दनकं सामाचारीकुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्त्तादीनाराधयतो वन्दनम् १४।
कारणात् –ज्ञानादिव्यतिरिक्ताद् वस्त्रादिलाभहेतोर्वन्दनम् , यद्वा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीति अभिप्रायतो वन्दनं, यद्वा वन्दनकमूल्यवशीकृतो मम प्रार्थनाभङ्गं न करिष्यतीति बुद्ध्या वन्दनम् १५।
१. ति-योगशास्त्र [प० ६५८] प्रवचनसारोद्धार[प० ९७]वृत्त्योः ।। २. जान्वोः -मु० C. संशोधिते च । जानुनोः C. मूल योगशास्त्रप्रवचनसारोद्धारवृत्त्योः ॥ ३. एक- C. । एकं वा-इति प्रवचनसारोद्धारवृत्तौ ५.९८ । एकं-योगशास्त्रवृत्तौ [प० ६५८] नास्ति ॥ ४. पतितः मम अग्रे-इति योगशास्त्रवृत्तौ । 'एष तावद्भजते-अनुवर्तते मां सेवायां पतितो वर्तते ममेत्यर्थः, अग्रे च मम भजनं करोत्यसौ' इति प्रवचनसारोद्धारवृत्तौ ५.९८ ॥ ५. गौरवात् वन्दनकसमा इति योगशास्त्रवृत्तौ । " 'गारव त्ति' गौरवनिमित्तं वन्दनकमिति कथम् ? 'सिक्खाविणीओऽहं' ति शिक्षा-वन्दनकप्रदानादिसामाचारी" इति प्रवचनसारोद्धारवृत्तौ प० ९८-९९ ।।
D:\new/d-2.pm5\3rd proof