________________
३०४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः ___ यथाकथञ्चिद् गुर्वागमनिरपेक्षतया सर्वकार्येषु छन्दोऽभिप्रायो यस्य स यथाछन्दो यथा - "उस्सुत्तमणुवइटुं, सच्छंदविगप्पिअं अणणुवाई। परतत्ति पवत्तेइ, तिणेअ इणमो अहाछंदो" ॥१॥[प्र.सा./१२२] "पासत्थाइ वंदमाणस्स, नेव कित्ती न निज्जरा होइ । कायकिलेसं एमेव, कुणई तह कम्मबंधं च" ॥१॥[आ.नि./११८८ ]
किं बहुना ? तैः संसर्गं कुर्वन्तो गुणवन्तोऽप्यवन्दनीयाः । यतः - "असुइट्ठाणे पडिआ, चंपगमाला न कीरई सीसे। पासत्ताईठाणेसुं , वट्टमाणा तह अपुज्जा ॥१॥[आ.नि./११११] पक्कणकुले वसंतो, सउणीपारो वि गरहिओ होइ । इअ गरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं" ॥२॥[आ.नि./१११२] इति । ज्ञातानि"दव्वे भावे वंदण १, रयहरणा २ ऽऽवत्त ३ नमण ४ विणएहिं ५ । सीअल १ खुड्डय २ कण्हे ३, सेवय ४ पालय ५ उदाहरणा" ॥१॥[ ]
तत्र वन्दने गुणस्तुतौ शीतलाचार्यदृष्टान्तः १। द्रव्यचितौ रजोहरणादिधारणे भावचितौ ज्ञानादित्रये क्षुल्लकाचार्यकथा २। आवर्तादिकृतिकर्मणि कृष्णदृष्टान्त: ३। शिरोमनमनपूजायां सेवकद्वयदृष्टान्तः ४। विनयकर्मणि शाम्बपालकदृष्टान्तः ५। कथानकविस्तरस्तु ग्रन्थान्तरादवसेयः । एकोऽवग्रहः सार्द्धत्रयहस्तमानः सूत्रव्याख्यायां वक्ष्यमाणः । नामानि ५"वंदण १ चिइ २ किइकम्मं, ३, पूआकम्मं च ४ विणयकम्मं ५ । वंदणगस्स य एए, नामाइँ हवंति पंचेव ॥१॥[ प्रव.सा./१२७ ]
एतानि प्रागुक्तशीतलादिदृष्टान्तेषु भावितार्थानि ।
वन्दनकस्य पञ्चैते निषेधा निषेधस्थानानि - "वक्खित्तपराहुत्ते, पमत्ते मा कयाइ वंदिज्जा । आहारं च करिते, नीहारं वा जइ करेइ" ॥१॥[आ.नि./११९८, प्र.सा./१२४]
व्याक्षिप्तोऽनुयोगप्रतिलेखनादावन्यत्र कर्मणि दत्तमनाः, प्रमत्तो निद्राद्यैः, शेषं व्यक्तम् । आशातनाश्च त्रयस्त्रिंशत्सूत्रेण सह व्याख्यास्यन्ते
१. L.P.C. । तथा यथा-मु० ॥ २. परतत्तिपवत्ती तितिणो य-इति प्रवचनसारोद्धारे ॥ ३. अ पमत्ते-इति योगशास्त्रवृत्तौ प० ६५९ ।।
D:\new/d-2.pm5\3rd proof