SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ गुरुवन्दने १९८ स्थानानि - श्लो० ६२ ॥ ] [ ३०१ तथा यथाजातं –जातं जन्म, तच्च द्वेधा - प्रसवः प्रव्रज्याग्रहणं च । तत्र प्रसवकाले रचितकरम्पुटो जायते, प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्त्रिकः इति, अत एव रजोहरणादीनां पञ्चानां शास्त्रे यथाजातत्वमुक्तम् । तथा च तत्पाठः – "पंच अहाजायाई, चोलपट्टो १ तहेव रयहरणं २ | उणि ३ खोमिअ ४ निस्सिज्जजुअलं तह य मुहपत्ती" ॥१॥ [ प्र.सा./८६० ] यथा जातम् अस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् |३| तथा द्वादशावर्त्ताः-कायचेष्टाविशेषा गुरुचरणन्यस्तहस्तशिर:स्थापनारूपा यस्मिन् तद् द्वादशावर्त्तम्, इह च प्रथमप्रविष्टस्य 'अहोकायं' इत्यादिसूत्रोच्चारणगर्भाः षडावर्त्ता, निष्क्रम्य पुनः प्रविष्टस्यापि त एव षडिति द्वादश १५ । चत्वारि शिरांसि यस्मिन् तच्चतुः शिरः, प्रथमप्रवेशे क्षमणाकाले शिष्याचार्ययोरवनमच्छिरोद्वयं, निष्क्रम्य पुनः प्रवेशे तथैव शिरोद्वयम् १९। त्रिगुप्तं मनोवाक्कायकर्मभिर्गुप्तम् २२। तथा प्रथमोऽनुज्ञाप्य प्रवेशो द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशम् २४। एकं निष्क्रमणमावश्यिक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् २५ । तथा षट् स्थानानि शिष्यस्य “इच्छा य १ अणुन्नवणा २, अव्वाबाहं च ३ जत्त ४ जवणा य ५ । अवराहखामणा विअ ६, वंदणदायस्स छट्टाणा” ॥१॥ [ आ.नि.१२३२,गु.भा.३३] गुरुवचांस्यपि षडेव -- - " छंदेण १ ऽणुजाणामि २, तह त्ति ३ तुब्भं पि वट्टए ४ एवं ५ । अहमवि खामेमि तुमं ६, आलावा वंदणरिहस्स" ॥१॥ [ आवश्यकनिर्युक्तौ १२३८, गुरुवन्दनभाष्ये २४, प्रवचनसारोद्धारे १०१ ] ते द्वयेऽपि यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । १. स्थापनरूपा-इति योगशास्त्रवृत्तौ प० ६५५ ॥ २. मावश्यक्या - इति आवश्यकहारिभद्र्यां प० ५४३ ॥ ३. तुला- योगशास्त्रवृत्तिः प० ६६१, प्रवचनसारोद्धारः गा० ९९, विचारसार प्र० गा० ७२७ ॥ ४. तुमे-इति योगशास्त्र - प्रवचनसारोद्धारवृत्त्योः ॥ ५. वयणाई - इति आवश्यक निर्युक्तौ, गुवन्दनभाष्यप्रवचनसारोद्धारविचारसारेषु ॥ D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy