________________
गुरुवन्दनविधिः-श्लो० ६२॥]
[२९९ तइअंतु छंदणदुगे, तत्थ मिहो आइमं सयलसंघे । बीअं तु दंसणीण य, पयट्ठिआणं च तइअंतु ॥२॥[गु.भा./४]
येन च प्रतिक्रमणं मण्डल्यां कृतं न स्यात् तेन विधिना बृहद्वन्दनं दातव्यम् । तद्विधिश्चैवं भाष्ये
"इरिआकुसुमिणुसग्गो, चिइवंदणपुत्तिवंदणालोअं। वंदणखामणवंदणसंवरचउछोभदुसज्झाओ ॥१॥ [गु.भा./३८] इरिआचिइवंदणपुत्तिवंदणचरिमवंदणालोअं। वंदणखामणचउछोभदिवसुस्सग्गो दुसज्झाओ" ॥२॥ [ गु.भा./३९]
अनयोर्व्याख्या -प्रथमम् ईर्यापथिकीप्रतिक्रमणम् , ततः कुसुमिणेत्यादिकायोत्सर्गः शतोच्छासमानः कुस्वप्नाद्युपलम्भे त्वष्टोत्तरशतोच्छासमानः, ततश्चैत्यवन्दना, ततः 'पुत्ति त्ति' मुखवस्त्रिका क्षमाश्रमणपूर्वं प्रतिलेख्या, ततो वन्दनकद्वयम् , आलोचनं च पुनर्वन्दनकद्वयम् , क्षमणकं च, पुनर्वन्दनकद्वयम् , 'संवर त्ति' प्रत्याख्यानं च 'चउछोभ त्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि, ततः सज्झाय संदिसावउं सज्जाय करउं' इति क्षमाश्रमणद्वयं दत्त्वा स्वाध्यायः कार्य इति प्रातस्त्यवन्दनविधिः ।
प्रथमममीर्यापथिकीप्रतिक्रमणम् , ततश्चैत्यवन्दना, क्षमाश्रमणपूर्वं मुखवस्त्रिकाप्रतिलेखनम् , वन्दनकद्वयम् , दिवसचरिममिति प्रत्याख्यानं च, ततो वन्दनकद्वयम् , आलोचनं च, वन्दनकद्वयं च, क्षमणकं च, भगवन् इत्यादिछोभवन्दनानि चत्वारि, ततो देवसिअपायच्छित्तेतिकायोत्सर्गः, ततः प्राग्वत् क्षमाश्रमणद्वयपूर्वं स्वाध्यायः, अयं सान्ध्यवन्दनविधिः ।
अत्र च द्वादशावर्त्तवन्दने अष्टनवत्यधिकशतसङ्ख्यस्थानानि ज्ञेयानि । तानि यथा - "मुहणंतय २५ देहा २५ वस्सएसु २५ पणवीस हुंति पत्तेअं। छट्ठाण ६ छगुरुवयणा ६, छच्च गुणा ६ हुंति नायव्वा ॥१॥[गुरु./१] अहिगारिणो य पंच य ५, इअरे पंचेव ५ पंच आहरणा ५ । एगोवग्गह १ पंचाभिहाण ५ पंचेव पडिसेहा ५ ॥२॥ [गुरु./२] आसायण तित्तीसं ३३, दोसा बत्तीस ३२ कारणा अट्ठ ८ । छद्दोसा ६ अडनउअं, ठाणसयं वंदणे होइ १९८" ॥[गुरु./३]
[तुला-प्र.सा./९३-९५]
१. अथ-मु०॥
D:\new/d-2.pm5\3rd proof