SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ २९८] [धर्मसंग्रहः-द्वितीयोऽधिकारः खविअंनीआगोअं, उच्चागोअंच बंधिअं तेहिं। कुगइपहो नि?विओ, सुगईपहो अज्जिओ तह य ॥२॥[श्रा.दि./१०२ ] इहलोगंमि सुकित्ती, सुपुरिसमग्गो अ देसिओ होई । अन्नेसिं भव्वाणं, जिणभवणं उद्धरंतेणं ॥३॥[श्रा.दि./१०३ ] सिझंति केइ तेणेव, भवेण सिद्धत्तणं च पाविति । इंदसमा केइ पुणो, सुरसुक्खं अणुभवेऊणं" ॥४॥[ श्रा.दि./१०४] एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिन्तायां स्वशक्त्या यतनीयम् , न हि देवगुर्वादीनां श्रावकं विनाऽन्यः कश्चिच्चिन्ताकर्ताऽस्तीति । इदानीं जिनपूजादिकार्यानन्तरकरणीयमाह -'प्रत्याख्यान' इत्यादि, 'गुरोः' धर्माचार्यस्य देववन्दनार्थमागतस्य, स्नात्रादिदर्शनधर्मदेशनाद्यर्थं तत्रैव स्थितस्य, वसतौ वा चैत्यवन्नषेधिकीत्रयाधिगमपञ्चकादियथार्हविधिना गत्वा, धर्मदेशनायाः प्राक् पश्चाद्वा, तस्याभ्यर्णे -उचिते समीपे, उचितत्वं चार्द्धचतुर्थहस्तप्रमाणात् क्षेत्राद्वहिरवस्थानम् , विनयो-व्याख्यास्यमानवन्दनकादिरूपस्तत्पूर्वकं तमादौ कृत्वेत्यर्थः । प्रत्याख्यानस्य देवसमीपे कृतस्य, ततो विशिष्टस्य वा, क्रिया -करणं गुरुमुखेन प्रतिपत्तिरित्यर्थः । अयं च विशेषतो गृहिधर्म इत्यन्वयः । त्रिविधं हि प्रत्याख्यानकरणम् -आत्मसाक्षिकं १ देवसाक्षिकं २ गुरुसाक्षिकं ३ चेति, गुरोः पार्वे प्रत्याख्यानं कार्यम् । उक्तं च - "प्रत्याख्यानं यदासीत् , तत्करोति गरुसाक्षिकम् । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकम्" ॥१॥[ ] गुरुसाक्षिकत्वे हि दृढता भवति प्रत्याख्यानपरिणामस्य । “गुरुसक्खिओ हु धम्मो"[1 इति जिनाज्ञाराधनम , गरुवाक्योदभतशभाशयाधिकः क्षयोपशमस्तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः । तत् प्रोक्तं श्रावकप्रज्ञप्तौ - "संतंमि वि परिणामे, गुरुमूलपवज्जणंमि एस गुणो। दढया आणाकरणं, कम्मखओवसमवुड्डी अ" ॥१॥[ श्रा.प्र./१११] एवं चान्येऽपि नियमाः सति सम्भवे गरुसाक्षिकं स्वीकार्याः । प्रत्याख्यानकरणं च गुरोविनयपूर्वकमित्युक्तं, स च वन्दनादिरूपस्तत्र वन्दनं त्रिधा-यद् भाष्यम् - "गुरुवंदणमह तिविहं, तं फिट्टा १ छोभ २ बारसावत्तं ३ । सिरनमणाइसु पढमे, पुण्णखमासमणदुगि बीअं ॥१॥ [ गु.भा./१] १. तुला-योगशास्त्रटीका ३।१२४ प० ६५० ॥ २. तुला-श्राद्धविधिवृत्तिः प०८२ ।। ३. L.P.C. I वन्दनं स्फेटाछोभद्वादशावर्तभेदात् त्रिधा L. संशो० मु० ॥ ४. तुला-श्राद्धविधिवृत्तिः प० ८१ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy