SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २९४] [धर्मसंग्रहः-द्वितीयोऽधिकारः "चेइअदव्वविणासे, इसिघाए पवयणस्स उड्डाहे। संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स" ॥१॥[सं.प्र.दे./१०५] विनाशोऽत्र भक्षणोपेक्षणादिलक्षणः । श्रावकदिनकृत्यदर्शनशुद्धयादावपि - "चेइअदव्वं साहारणं च, जो दहड़ मोहिअमईओ। धम्मं च सो न याणइ, अहवा बद्धाउओ नरए" ॥१॥[सं.प्र.दे./१०७] चैत्यद्रव्यं प्रसिद्धं, साधारणं च चैत्यपुस्तकापद्गतश्राद्धादिसमुद्धरणयोग्यं ऋद्धिमच्छ्रावकमीलितम् , एते द्वे यो द्रुह्यति विनाशयति दोग्घि वा व्याजव्यवहारादिना तदुपयोगमुपभुङ्क्त इत्यर्थः ।। "चेइअदव्वविणासे, तद्दव्वविणासणे दुविहभेए। साहू उविक्खमाणो, अणंतसंसारिओ होइ ॥१॥[सं.प्र.दे./१०६] चैत्यद्रव्यं हिरण्यादि तस्य विनाशे, तथा तस्य चैत्यस्य द्रव्यं दारूपलेष्टकादि तस्य विनाशने विध्वंसने, कथम्भूते ? द्विविधे योग्यातीतभावविनाशभेदात् , तत्र योग्यं नव्यमानीतम् , अतीतभावलग्नोत्पाटितम् । अथवा मूलोत्तरभेदाद्विविधे, तत्र मूलं स्तम्भकुम्भादि, उत्तरं तु च्छादनादि, स्वपक्ष-परपक्षकृतविनाशभेदाद्वा द्विविधे, स्वपक्षः साधर्मिकवर्गः, परपक्षो वैधर्मिकलोकः, एवमनेकधा द्वैविध्यम् । अत्रापिशब्दस्याध्याहारादास्तां श्रावकः, सर्वसावधविरतः साधुरप्यौदासीन्यं कुर्वाणो देशनादिभिरनिवारयन्नन्तसंसारिको भणित इति वृत्तिः" । ननु त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यरक्षायां को नामाधिकारः इति चेदुच्यते, राजादेः सकाशाद् गृहग्रामाद्यादेशादिनाऽभ्यर्थ्य नव्यमुत्पादयतो यतेर्भवति भवदुक्तदूषणावकाशः, परं केनचिद्यथाभद्रकादिना प्राग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति, तदा नाभ्युपेतार्थहानिः, प्रत्युत धर्मपुष्टिरेव, जिनाज्ञाराधनात् , आगमेऽप्येवमेव । यदाह - "चोइए चेइआणं, खित्तहिरण्णे अगामगोवाई। लग्गंतस्स उ जइणो, तिगरणसोही कहं नु भवे ? ॥१॥[पं.क.भा./१५६९] भण्णइ इत्थ विभासा, जो एआइ सयं विमग्गिज्जा । तस्स न होइ विसोही, अह कोइ हरिज्ज एआइं ॥२॥[ पं.क.भा./१५७० ] १. उत्तरार्धं [ ] कोष्ठके-मु० ॥ २. तु (त्व) च्छा० | L.P.C. श्राद्धविधिवृत्तौ च [प०७४] तु च्छा ॥ ३. गामगा मु० | L.P.C. श्राद्धविधिवृत्तौ च गामगो ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy