SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आशातनास्वरूपम्-श्लो० ६२॥] [२९३ ___ आशातनाश्चात्यन्तविषयिणः सतताविरता देवा अपि देवगृहादौ सर्वथा वर्जयन्ति, उक्तं हि"देवहरयंमि देवा, विसयविसविमोहिआ वि न कया वि । अच्छरसाहिं पि समं, हासक्कीडाइ वि कुणंति" ॥१॥[ श्रा.दि./१२४] एताश्चाशातना जिनालये क्रियमाणा न केवलं गृहिणामेव निषिद्धाः, किन्तु यथासम्भवं साधूनामपीति ज्ञेयम् । यत उक्तम् - "आसायणा उ भवभमणकारणं इय विभाविउं जइणो । मलमलिणु त्ति न जिणमंदिरंमि निवसंति इइ समओ" ॥१॥ [प्र.सा./४३७] त्ति । गुर्वाशातनापि त्रिधा-तत्र गुरोः पादादिना सङ्घट्टादौ जघन्या १, श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमा २, गुर्वादेशाकरणविपरीतकरणपरुषभाषणादावुत्कृष्टा ३। सङ्ख्यया च गुरुवन्दनाधिकारे वक्ष्यमाणास्त्रयस्त्रिंशत् । ___ स्थापनाचार्याशातनापि त्रिधा-तस्येतस्ततश्चालनपादस्पर्शादौ जघन्या १, भूमिपातनावज्ञामोचनादौ मध्यमा २, प्रणाशनभङ्गादावुत्कृष्टा ३। एवं ज्ञानोपकरणवद्दर्शनचारित्रोपकरणस्य रजोहरण-मुखवस्त्रिका-दण्डकादेरपि “अहवा णाणाइतिगं"[ ] इति वचनाद् गुरुस्थाने स्थाप्यत्वेन विविधव्यापारणादधिका तदाशातनापि वा । यदुक्तं महानिशीथे "अविहीए निअंसणुत्तरिअं रयहरणं दंडग वा परिभुजे चउत्थं" [ ] इति । तेन श्राद्धैश्चरवलकमुखवस्त्रिकादेविधिनेव व्यापारणस्वस्थानस्थापनादि कार्यमन्यथा धर्मावज्ञादिदोषापत्तेः । एतासु चोत्सूत्रभाषणार्हद्गुर्वाद्यवज्ञादि महत्याशातनाऽनन्तसंसारिताहेतुश्च । यतः - "उस्सुत्तभासगाणं, बोहिणासो अणंतसंसारो । पाणच्चए वि धीरा, उस्सुत्तं ता न भासंति ॥१॥[सं.स./२९] तित्थयरपवयणसुअं, आयरिअं गणहरं महड्डीअं । आसायंतो बहुसो, अणंतसंसारिओ होइ" ॥२॥[उ.प./४२३ ] इति । "एवं देव-ज्ञान-साधारणद्रव्याणां गुरुद्रव्यस्य च वस्त्रपात्रदेविनाशे तदुपेक्षायां च महत्याशातना । यदूचे - १. हासखिडाइ-इति श्राद्धदिनकृत्ये । "हासः प्रतीत एव, खेला-क्रीडा" इति तत्रैव वृत्तौ भा० १ प० २७१ ॥ २. त्ति-मु० नास्ति ॥ ३. तुला-श्राद्धविधिवृत्तिः प० ७३ तः ॥ ४. 'वज्ञाय (ज्ञया) मो मु० । L.P.C. श्राद्धविधिवृत्तावपि 'वज्ञामो' इति । D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy