SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 'जयवीयराय' सूत्रविवरणम्-श्लो० ६१॥] [२८९ सौन्दर्ये लोकोत्तरधर्माधिकारी भवतीत्याह – 'शुभगुरुयोगो' विशिष्टचारित्रयुक्ताचार्यसम्बन्धः तथा 'तद्वचनसेवा' सद्गुरुवचनसेवना न जातुचिदयमहितमुपदिशति, 'आभवम्' आसंसारम् 'अखण्डा' सम्पूर्णा । इदं च प्रणिधानं न निदानरूपम् , प्रायेण निःसङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादर्वाक् कर्त्तव्यम् , अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनमिति उत्कृष्टवन्दनविधिः ॥६१॥ अथापि जिनगृहविषयाण्येव शेषकरणीयान्याह - आशातनापरिहारं, स्वशक्त्योचितचिन्तनम् । प्रत्याख्यानक्रियाऽभ्यर्णे, गुरोविनयपूर्वकम् ॥६२॥ ज्ञानाद्यायस्य शातना खण्डना आशातना निरुक्त्या यलोपः, तासां परिहारो वर्जनं विशेषतो गहिधर्म इति सम्बन्धः पर्ववद दृष्टव्यः, एवमग्रेऽपि । आशातनाश्चत्र जिनस्य प्रस्तुताः प्रसङ्गतोऽन्या अपि प्रदर्श्यन्ते, यथा ता ज्ञानदेवगुर्वादीनां जघन्यादिभेदात् त्रिविधाः । तत्र जघन्या ज्ञानाशातना ज्ञानोपकरणस्य निष्ठीवनस्पर्शः, अन्तिकस्थे च तस्मिन्नधोवातनिसर्गः, हीनाधिकाक्षरोच्चार इत्यादिका १। मध्यमा आकालिकं निरुपधानतपो वा अध्ययनम् , भ्रान्त्याऽन्यथाऽर्थकल्पनम् , ज्ञानोपकरणस्य प्रमादात् पादादिस्पर्शो भूपातनं चेत्यादिरूपा २। उत्कृष्टा तु निष्ठ्यूतेनाक्षरमार्जनं उपर्युपवेशनशयनादि ज्ञानोपकरणेऽन्तिकस्थे उच्चारादिकरणम् , ज्ञानस्य ज्ञानिनां वा निन्दा प्रत्यनीकतोपघातकरणमुत्सूत्रभाषणं चेत्यादिस्वरूपा ३।। जघन्य देवाशातना वासकुम्पिकाद्यास्फालनश्वासवस्त्राञ्जलादिस्पर्शाद्या १। मध्यमा शरीराद्यशुद्ध्या पूजनम् , प्रतिमाभूनिपातनं चेत्याद्या २। उत्कृष्टा प्रतिमायाश्चरणश्लेष्मस्वेदादिस्पर्शनं भङ्गजननावहीलनाद्या च ३। __ अथवा देवाशातना जघन्या दश मध्यमाश्चत्वारिंशद् उत्कृष्टाश्चतुरशीतिः । ताश्च क्रमेणैवामाहुः - "तम्बोल १ पाणु २ भोअण ३, वाहण ४ थीभोग ५ सुवण ६ निट्ठवणं ७ । मुत्तुच्चारं ९ जूअं १०, वज्जे जिणमंदिरस्संते॥१॥[सं.प्र.८७, प्र.सा.४३२, चै.बृ.६३ ] १. निस्सङ्गा” इति योगशास्त्रवृत्तौ प० ६५० ॥ २. तुला-श्राद्धविधिवृत्तिः प० ७१तः ॥ ३. सुयणनिट्ठवणे-इति प्रवचनसारोद्धारे । सुवण्णनिट्ठवणं-इति श्राद्धविधिवृत्तौ प०७१ ॥ ४. ता-इति श्रद्धाविधिवृत्तौ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy