________________
२८८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः तेषामविरतत्वाद् । इत्थमेव तद्भाववृद्धरुपकारदर्शनात् । एतद्व्याख्या च पूर्ववत् । नवरं स्तुतिर्वैयावृत्त्यकराणाम् । पुनस्तेनैव विधिनोपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्वन्ति । यथा -
"जय वीयराय ! जगगुरू ! होउ ममं तुहप्पभावओ भयवं!। भवनिव्वेओ मग्गाणुसारिया इट्ठफलसिद्धी ॥१॥ लोगविरुद्धच्चाओ, गुरुजणपूआ परत्थकरणं च ।
सहगरुजोगो तव्वयणसेवणा आभवमखंडा" ॥२॥ जय वीतराग ! जगद्गुरो ! इति भगवतस्त्रिलोकनाथस्य बुद्धौ सन्निधानार्थमामन्त्रणं, भवतु जायतां, ममेत्यात्मनिर्देशः, तव प्रभावतस्तव सामर्थ्येन, भगवन्निति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तद् ? इत्याह –'भवनिर्वेदः' संसारनिर्वेदः न हि भवादनिर्विण्णो मोक्षाय यतते, अनिविण्णस्य तत्प्रतिबन्धात् मोक्षे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात् । तथा 'मार्गानुसारिता' असद्ग्रहविजयेन तत्त्वानुसारिता, तथा 'इष्टफलसिद्धिः' अभिमतार्थनिष्पत्तिरैहलोकिकी, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति, तस्माच्चोपादेयप्रवृत्तिः । तथा 'लोकविरुद्धत्यागः' सर्वजननिन्दादिलोकविरुद्धानुष्ठानवर्जनम् । यदाह -
"सव्वस्स चेव निंदा, विसेसओ तहय गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥१॥[पञ्चा.२/८] बहुजणविरुद्धसंगो, देसादाचारलंघणं चेव । उव्वणभोओ अ तहा, दाणाइ वि पयडमन्ने उ॥२॥[ पञ्चा.२/९] साहुवसणम्मि तोसो, सइ सामथम्मि अपडिआरो अ।
एमाइआइँ इत्थं, लोगविरुद्धाइं णेआई" ॥३॥[पञ्चा.२/१०] गुरुजनस्य 'पूजा' उचितप्रतिपत्तिर्गुरुजनपूजा, गुरवश्च यद्यपि धर्माचार्या एवोच्यन्ते, तथाऽपीह मात्रापित्रादयोऽपि गृह्यन्ते । यदुक्तम् -
"माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥१॥ [यो.बि./११०] 'परार्थकरणं' हितार्थकरणं, जीवलोकसारं पौरुषचिह्नमेतत् । सत्येतावति लौकिके
१. 'पुनः स ते वा विधिना'-इति योगशास्त्रवृत्तौ प० ६४८ ॥ 'पुनः स ते वा संवेगभावितमतयो विधिना उपविश्य...प्रणिधानं करोति कुर्वन्ति वा" । इति ललितविस्तरायाम् ॥
D:\new/d-2.pm5\3rd proof