SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 'सिद्धाणं बुद्धाणं' सूत्रविवरणम्-श्लो० ६१॥] [२८७ नो अणायरिउप्पन्ना, नो असंखेज्जाउया, नो अइकूरमई, नो न उवसंतमोहा, नो असुद्धाचारा, नो असुद्धबुंदी, नो ववसायवज्जिया, नो अपुव्वकरणविरोहिणी, नो नवगुणट्ठाणरहिया, नो अजोग्गा लद्धीए, नो अकल्लाणभायणं ति, कहं न उत्तमधम्मस्स साहग त्ति" [ ] अयमत्र भावः -सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य हेतुर्भवति, यथाभूतात् श्रेणिमवाप्य निस्तरति भवमहोदधिमिति, अत: 'कार्य कारणोपचाराद्'एवमुच्यते, न च चारित्रस्य वैफल्यम् , तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एष नवमोऽधिकारः । एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते, केचित् तु अन्ये अपि स्तुति पठन्ति, यदाह आवश्यकचूर्णिकृत् –“सेसा जहिच्छाए"[ ] त्ति । ते यथा - "उज्जितसेलसिहरे, दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवट्टि, अरिट्टनेमिं नमसामि" ॥४॥ कण्ठ्या । नवरं 'निसीहिअ त्ति' सर्वव्यापारनिषेधात् नैषेधिकी मुक्तिः, एष दशमोऽधिकारः । "चत्तारि अट्ठ दस दो य वंदिआ जिणवरा चउव्वीसं । परमट्ठनिट्ठिअट्ठा, सिद्धा सिद्धि मम दिसंतु" ॥५॥ 'परमट्ठनिटिअट्ठ त्ति' परमार्थेन न कल्पनामात्रेण, निष्ठिता अर्था येषां ते तथा, शेषं व्यक्तम् , एष एकादशोऽधिकारः १। "संपय पयप्पमाणा, इह वीस बिहुत्तरं च वण्णसयं । पणिवायदंडगाइसु , पंचमओ दंडओ अ इमो" ॥१॥[ ] __एवमेतत्पठित्वोपचितपुण्यसम्भार उचितेष्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थं पठति पठन्ति वा - "वेयावच्चगराणं संतिगराणं सम्मद्दिट्ठिसमाहिगराणं करेमि काउस्सग्गं" 'वैयावृत्त्यकराणां' प्रवचनार्थं व्यापृतभावानां गोमुखयक्षाऽप्रतिचक्राप्रभृतीनाम् , 'शान्तिकराणां' सर्वलोकस्य, 'सम्यग्दृष्टिविषये समाधिकराणाम् , एषां सम्बन्धिनं षष्ठ्याः सप्तम्यर्थत्वादेतद्विषयमेतान् वा आश्रित्य, 'करोमि कायोत्सर्गम् । अत्र च वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छ्वसितेनेत्यादि, १. अणारिउप्पत्ति-इति ललितविस्तरायाम् ।। २. न सुद्धा' इति योगशास्त्रवृत्तौ प०६४६ ॥ ३. उत्तमधम्मसाहिग त्ति-इति ललितविस्तरायाम् ।। ४. बहु L.P.C. || D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy